SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० भद्रोदयाख्यव्याख्याविभूषिते तद्रूप इत्यर्थः । “ पाशस्तु बन्धनप्रन्थिरि " ति हैमः । तस्य नवत्वमेव प्रकटयन्नाह-य:-यादृशः पाशः, आत्मना-स्वयमपि, तेषु-देहादिषु, क्षिप्तः-प्रेरितः, स्वस्थ-क्षेप्तुरेव, बन्धाय-नियन्त्रपाय, आसक्तये इत्यर्थः । कर्मबन्धनायेति यावत् । जायतेकल्पते । अपिना स्वेन क्षिप्तपाशेन परस्य न तु स्वस्य बन्धः प्रसिद्ध इत्यतिविस्मयकरत्वं स्वक्षिप्तपाशेन स्वबन्धनस्य विरुद्धत्वं च ध्वन्यते । आत्मना हि कर्मविपाकवशादनादिवासनावशाक विषयेषु ममत्वाऽऽधाने तत्राऽऽसक्ति र्जायते तस्येत्यात्मा बध्यत इति कथ्यते, बद्ध इवाऽऽसक्तस्य तदधीनत्वात् । किञ्चाऽविद्या कर्मबन्धप्रयोजिकेत्यात्मा कर्मबद्धो भवति । ततश्च न ममत्वपाशेन केवलं स्वामित्वाऽनुषङ्गाद्विषयबन्धोऽपि तु तत्राऽऽसक्या कर्मवृद्ध्या च स्वस्याऽपीति परवन्धकृतः पाशादयं मोहरूपः पाशो विलक्षण इति नवोऽत एव चाऽवश्यहेयो यथा न स्वस्य बन्धो भवेदिति विद्यया समता साधनीया, यथा मोहाऽपोहः स्यादिति तात्पर्यम् । अत्र विरोधश्च बन्धस्याऽऽसक्तिपरतया परिहत एवेति विरोधाऽऽमासाऽनुप्राणितः पाशादुपमानादुपमेयस्य मोहपाशस्याऽs. धिक्यवर्णनाव्यतिरेकाऽलकारो बोध्यः ॥ ६॥ . नन्वेतावता देहादिभिन्न आत्मेत्यायातम् , तच्चाऽनुभवविरुद्धम् । लोके बहं रुग्णो ममेदं शरीर मित्यादिना देहादी स्वत्वस्यैवाऽनुभवादेहास्पृथगात्मनोऽनुभवाभावाचेति चेत्, एतद्विवेकाहायैवं विद्योपयुज्यत इति शिष्यं प्रबोधयन्नाह
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy