________________
ज्ञानसारे विद्याष्टकम्
मिथो युक्तपदार्थानामसङ्क्रमचमत्क्रिया । चिन्मात्र परिणामेन विदुषैत्राऽनुभूयते ॥ ७ ॥
१५१
मिथ इति । मिथोयुक्तपदार्थानाम् - मिथोऽन्योन्यं युक्ताः सष्टिः, अनुयूता इत्यर्थः । अविभागेन स्थिता इति यावत् । महथा ये पदार्थाः देहात्मादयस्तेषाम् असङ्क्रमचमत्क्रियाअमोऽसङ्कीर्णता, पार्थक्यमित्यर्थः । स्वलक्षणभेदाद्भिन्नतेत बावत् । तद्रूपा चमत्क्रिया चमत्कारः, चकितीकरण साधनवैशिष्ट्यमिति यावत् । व्यविभागेन स्थितानां पार्थक्यं ज्ञात्वा जनाश्चकिता भवन्तीति तत्पार्थक्यं चमत्कार इति भावः । सा तादृशी चमत्क्रिया; विदुषा - उक्तप्रकारविद्यासम्पन्नेन, एत्रकारो भिन्नक्रमश्चिन्मात्र परिणामेनेत्यनन्तरं बोध्यः । तथा च चिन्मात्र परिणामेनैवचिदेव चिन्मात्रं शुद्धं ज्ञानम्, तद्वति तत्प्रकारकज्ञानमित्यर्थः, सम्यग्ज्ञानमिति यावत् । विवेक इति हृदयम् । तादृशेन परिणामेनाssस्म पर्यायेणैव न तु प्रकारान्तरेण, अज्ञानेनैक्यस्यैव बोधादितिभावः । यद्वा चिन्मात्रपरिणामो विदुष एवेति तेन परिणामेन कृत्वा विदुषैव, अनुभूयते -ज्ञायते । आत्मदेहादिविवेको न ज्ञानं विनेति विद्या सर्वथा साघनीया । अन्यथाऽविवेक आत्मबन्धायैव स्वादिति विद्याया विवेकः फलमिति तात्पर्यम् ॥ ७ ॥
#अविद्यातिमिरध्वंसे दशा विद्याञ्जनस्पृशा ।
- पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ॥ ८ ।।
d
विद्याया अविद्यानाशपूर्वकमात्मसाक्षात्कारः फलमिति शिष्योपदेशार्थमुपसंहरन्नाह -