________________
ज्ञानसारे विद्याऽष्टकम् . १५ :: पुनः कर्म बध्नाति, स पवित्रः । स एव शुचिताया उत्कर्षो यन्त्र पुनर्मालिन्यमिति भावः । च्युतौ तु इस्तिस्नानन्यायेत पुनर्मालिन्या. मिति भावः । च्युती तु हस्तिस्तानन्यायेन पुनर्माकिन्यमेवेति यथा न ततश्युतिस्तथाप्रयतनीयमप्रमादिना । तदेवं विद्यया समता, वया चाऽऽत्मनो विशुद्धिरिति समदृष्टिः शुचिरिति निष्कर्षः । तदेव मात्मनः शुचित्वे समतैव विद्यासम्पन्नस्य साधनमिति सोपादेया मोइश्व त्याज्य इति ध्वन्यते । यदुक्तम् -" अनिच्छन् कर्म वैषम्यं ब्रह्मांशेन समं जगत् । आत्माऽभेदेन यः पश्येदसौ मोक्षं गमीशमी "ति बोध्यम् । प्राप्त सम्यक्त्वस्य नोत्कृष्ट स्थितिकः कर्मबन्ध इति तदेव तस्य शुचित्वमित्यपि कश्चित् । मलमिति लेषोनीतो बमा ॥ ५॥ - तदेवं समतायाः शुचित्वप्रयोजकत्वादुपादेयत्वं सूचवित्वा तदभावे मोह एवाऽवशिष्यत इति मालिन्यपयोजकत्वान्मोहस्य हेयत्वमुक्ति चातुर्येण शिष्य बोधयन्नाह
आत्मबोधो नवः पाशो देहगेहधनादिषु । यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ॥ ६॥ ___आत्मबोध इति । देहगेहधनादिषु-देहे स्वशरीरे गेहे गृहे भने सुवर्णपश्वादो, आदिना स्त्री पुत्र परिजनपरिच्छदौ चैत्रमेतेषु, आत्मबोधः-आत्मलपकारकोऽहं ममेत्येवंमतिः, विषयेषु, मोह इति निष्कर्षः, अविद्येति यावत् । " अविद्याऽहम्मतिः खियामि " त्यमरः । नत्र:-इतर विलक्षणत्वाद्विस्मयकरः, पाशा-चन्धनरज्जु,