SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते कलाप " इत्यादाविति बोध्यम् । यद्वा स्नानसाधनत्वात्समतैव कुण्डं जलाशयविशेषः, तत्र, स्नात्वा-तन्मग्नो भूत्वा, समतापरिणताऽऽत्मवृत्तिरित्यर्थः । अत एव, कश्मल जम्-कश्मलं युद्धादौ शखायाघातादिजन्यो नष्ट संज्ञत्वात्मको मोहः, विषयमोहोऽपि च विवेकात्मकसंज्ञारहितो भवत्युपलक्षणत्वात्कश्मलं विषयमोहः, तज्ज तन्निमित्तम् , अथ च कृष्यादिकर्मणि शरीरे श्लिष्टं कचरं कश्मलं तज्जम् , मलम्-कर्मात्मकं सविशेषाऽऽसत्याद्यात्मकं च कच्चगदि. शेषजन्यं शारीरं मलं च । मोहाद्धि कर्मबन्धो रागादिवृद्धिश्च, कचराच प्रस्वेदसम्पर्कादिना शरीरे मलमिति बोध्यम् । “ मोही मूर्छा च कश्मलमि "ति, " मलिनं कच्चरं म्लानं कश्मलं च भलीमसमि"ति च हैमः । हित्वा-त्यक्त्वा, विशोध्येत्यर्थः । स्नाने न शारीरमलस्येवाऽऽत्मनः समतापरिणामेन कर्ममलस्य रागादेश्व विशुद्धिरिति हृदयम् । ननु स्नातः पुनरपि मलाविष्टो दृष्ट इतिः हस्तिस्नानन्यायनिराकरणार्थमाह, पुनः-एकदा विशुद्ध्यनन्तरं म्योऽपि, मालिन्यम्-उक्तप्रकारेण कर्मादिमलसम्पर्क मलसम्पर्क च, न याति-न प्राप्नोति, सः-तादृश एकान्ताऽऽत्यन्तिकमल. सम्पर्करहितः, स्नानादिना हि मलाऽपगमो नैकान्तिको नवाऽऽत्यतिकः, समतया त्वैकान्तिक आत्यन्तिकश्चेति भावः । अन्तरात्मादेहावच्छिन्न आत्मा, देहीत्यर्थः । यदुक्तम्-" परमात्मा सिद्धिप्रासौ बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद्देहे इत्येष त्रिविधः शिव" इति । पर:-सर्वोत्कर्षेण, शुचिः-पवित्रः, निर्मल इत्यर्थः । समतया कृत्वा कर्म तजन्यं चाऽऽसक्त्यादि च त्यजति, न च
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy