SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते स्थिरमितिभावः । तथा, वपुः - शरीरम्, अभ्रवत् - अभ्रं मेघस्तद्वत्, "अभ्रं मेत्रो वारिवाह" इत्यमरः । भङ्गुरम् - निमित्तमासाद्य स्वयमेव कर्तृव्यापाराऽनपेक्षयैव भज्यते इति तादृशम् । यथा ह्यभ्रं पवनादिवशात्स्वयमेवोन्नतमपि क्षगा द्विलीयते तथा वपुरपि रोगादिवशात्स्त्रयमेव भज्यत इति भावः । अनुध्यायेत् पश्येत् चिन्तयेदित्यर्थः । भावयेदिति यावत् । यथा नाऽविद्या प्रभवेदिति भावः ॥ ३ ॥ -१४६ नन्त्रस्त्वेतत्, तथाऽनुभवात् । देहेऽशुचित्वबुद्धिस्तु न मनोज्ञा, स्नानादिना हि देहशुचीभावस्य साम्प्रदायिकत्वात् । यदुक्तम् - " शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेदि" ति शिष्य मोहमपाकुर्वन्नाह— शुचीन्यप्यशुची कर्त्तुं समर्थेऽशुचिसम्भवे । देहे जलादिना शौचभ्रमो मूढस्य दारुणः ॥ ४ ॥ शुचीनीति । शुचीनि - पवित्राणि, तथा ख्यातानि घनसारकस्तूरिकाक्षोमवासः प्रभृतीन्यपि, अपिना शुचीनामप्यशुची करणादशुचितमत्वं देहस्य सूच्यते । अशुचीकर्तुम् अपवित्रीकर्तुम्, उपभोगादौ स्वसम्पर्कत इति बोध्यम् । समर्थे- प्रभौ, क्षमे इत्यर्थः उपभुक्तं हि कर्पूरादिकं शरीरमलसम्पर्कादप्राह्मतामापद्यत इति प्रसिद्धमिति भावः । तत्र हेतुगर्भविशेषणमाह-अशुचिसम्भवेअशुचि विण्मूत्राद्याश्रयत्वादपवित्रं जरायुयोन्यादिकं सम्भवः सम्भ वत्यस्मादिति स उत्पत्तिहेतुर्यस्य स तादृशः, यद्वाऽशुचेः शुक्र शोणितादेः सम्भवोऽशुचौ विण्मूत्रादिमयत्वादपवित्रे गर्भे सम्भवो
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy