________________
मानसारे विद्याऽष्टकम्
मलिम्लुचा" इत्यमरः । तस्य-तादृशज्ञानवतस्तत्त्वज्ञस्य, छलम्प्रमादात्मकमवकाशमित्यर्थः । तादृशज्ञानधनाद्यपहाराऽवसरमिति बावत् । प्रमादिनो हि धनं तस्करा मुष्णन्तीति भावः । लन्धुम्प्राप्तुम् , न-नैव, शक्नोति-प्रभवति, " स्खलितं छलमि"ति हैमः । तत्वज्ञस्य हि तत्वबुद्धि र्मोहमपाकरोति विरोधित्वात् , यदुकम्-" तत्त्वबुद्धिर्न मुह्य ती "ति तस्मात्तत्त्वधीः साध्या यथा मोहो नाऽभिभवेदिति भावः ॥ २॥
शिष्यपबोधाय धनादीनामनित्यत्वभावनामुपदिशन्नाहतरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेदभ्रवद्भङ्गुरं वपुः ॥ ३ ।।
तरङ्गतरलामिति । अदभ्रधी:-अविद्यमाना दभ्राऽल्पा धीर्यस्य स तादृशः, यस्य हि नाऽगा धीस्तस्य महत्येव सेति विशालबुद्धिरित्यर्थः । बुद्धि मानिति यावत् । श्रेयोमतिरितिसारार्थः । "स्तोकं क्षुल्लं तुच्छमरूपं दम्राऽणुतलिनानि चे"ति हैमः । लक्ष्मीम्-सम्पदम् , धनधान्यपरिजनपरिच्छदादिसमृद्धिमित्यर्थः । तरङ्गतरलाम्-तरङ्गः कल्लोलस्तद्वत्तरलामस्थिराम् , यथाहि तरजः पवनादिवशात्क्षणेनोत्पद्यते विलीयते च तथा धनाद्यपि तादृशपुण्य. वादिति लक्ष्मीस्तरङ्गवदस्थिरेति भावः । तथा, आयु:-जीवितम् , वायुवत्-पवनवत् , अस्थिरम्-सदागति, आयुर्हि मोगवशादनु. क्षणं क्रमशोऽपगच्छत्येव, वायुरपि च सदागतिरित्यायुर्वायुवद.