SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्याविभूषिते दनूध फलकथनस्योपदेशप्रकारत्वाचेतिदिक् । अन्यथाऽर्थापत्त्या तथा बोधाऽस्वीकारे त्वविद्याऽनुषक्तैव तिष्ठेदिति तत्वधी विद्येति पृथग्वाक्यं कल्पयित्वाऽऽकाङ्क्षाशान्तये आत्मनीत्य ध्याहारश्रमोऽ. स्थान एवेति सहृदयैरनुचिन्तनीयम् । ननु वैपरीत्यमेव कुतो नेति चेन्न, तदाह-योगाचाय:-योगोऽत्र तत्त्वधीस्तस्य ये आचार्या उपदेशकास्तैस्तादृशैः, तज्ज्ञैरित्यर्थः । नहि ज्ञानं विनोपदेश इति बोध्यम् । प्रकीर्तिता-प्रतिगदिता, संशये हि तज्ज्ञ एव स्थेय इति तज्ज्ञ योगाचार्यैरिस्थमेवोपदेशान्न वैपरीत्येनाऽविद्या विद्या वेति भावः ॥ १ ॥ शिष्यजिज्ञासानिवृत्तये तादृशतत्त्वधियः साक्षात्फलमाहयः पश्यनित्यमात्मानमनित्यं परसङ्गमम् । छलं लब्धुं न शक्नोति तस्य मोहमलिम्लुचः ॥ २ ॥ य इति । य:-यादृशः सम्यग्ज्ञानसम्पन्नो जनः, आत्मानम्शुद्धसच्चिदानन्दमयं निजात्मानं शुद्धसच्चिदानन्दात्मकं तत्त्वं च, गुणगुणिनोरभेदादिति ध्येयम् । नित्यम्-कूटस्थम् , अविनश्वरमनन्तं च, तथा-परसङ्गमम्-परस्याऽऽत्मभिन्नस्य पौद्गलिकस्य देहादे स्तजन्यसुखादेश्व सङ्गमं सम्पर्कम् , कर्मजन्यं संयोगम् , अनित्यम्-अस्थिरम् , विनश्वरं च, तस्य कर्मवशादुपनतत्वात्तत्क्षये तदभावादिति भावः। पश्येत्-जानीयात्, मोहमलिम्लुच:मोहोऽविद्या, स एवाऽऽत्मनि नित्यत्वादिज्ञानधनाद्यपहारकत्वान्मलिम्लुच इव मलिम्लुचः पाटच्चरः, “ प्रतिरोधिपरास्कन्दिपाटच्चर
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy