________________
ज्ञानसारे विद्याऽष्टकम्
ममेति च । अज्ञानेनाऽऽवृता बुद्धिर्मोह इत्यभिधीयते” इति । अभावज्ञानस्य प्रतियोगिज्ञानपूर्वकत्वान्न विद्येत्यविद्येति का विद्येत्याकाङ्क्षायामाह-तत्वधी:-तत्त्वं वस्तुयाथात्म्यं तद्धीस्तद्वैशिष्टयधी:, विद्या-विद्यापदबोध्या, सम्यग्ज्ञानमित्यर्थः । तदभाववति तत्प्रकारकधीरविद्या, तद्वति तत्प्रकारकधीश्च विद्येति यावत् । तथा च नित्यत्वशुचित्वाऽऽत्मत्वाऽभाववति नित्यत्वशुचित्वाऽऽत्मत्वविशिष्टबुद्धिनित्यशुच्यात्मस्व नित्याऽशुच्यनात्मत्व विशिष्टबुद्धिश्चाऽविद्या, त'थाऽनित्याऽशुच्यनात्मस्वनित्याशुच्यनात्मत्वबुद्धिनित्यशुच्यात्मसु नित्यशुच्यात्मत्वविशिष्टबुद्धिश्च विद्येति विशदोऽर्थः । अत्र त्वक्षरस्वारस्यादनित्या अशुचयश्च ये ऽनात्मानो देहादयः पौद्गलिकास्तेषु नित्यशुच्यात्मत्वप्रकारकधीर विद्य, तथा तेष्वेवाऽनित्यत्वादि. बुद्धिीवद्येत्यर्थः । यत्त्वात्मनि नित्यत्वादिबुद्धिर्विद्येति, तदमनोज्ञम् । यस्य ह्यनात्मन्यपि नित्यत्वादिबुद्धिस्तस्याऽऽत्मनि तथा बुद्धिः सुतरामिति विद्याया अविद्यायामेवाऽनिष्टोऽन्तर्भाव आपद्यते, तादृशार्थेऽक्षरस्वारस्याऽभावश्च तत्वधीरित्यस्य पृथग्विषयाऽनुच्या स्पष्टमेवोपलक्ष्यते । तत्त्वधीरित्यस्य प्रत्यासत्त्योपस्थितत्वाचाऽ. नित्याऽशुच्यनात्मस्वित्यत्रैवाऽन्वयेन शान्ताकासवात्वात्तथाऽन्वये बाघाऽभावाचाऽऽत्मनीत्यध्याहाराऽनवरात् । अनित्यादिषु तत्त्वबुद्धिरित्येतावतैव नित्यादिष्वपि तत्त्वबुद्धराऽऽपत्याऽवगमाच । नं चैवमप्रिमश्लोके " यः पश्येन्नित्यमात्मानमनित्यं परसनममि" त्युभयोक्तिरसङ्गतेति वाच्यम् । तस्य फलकथने तात्पर्यादनेन प्रथमेन श्लोकेन सिद्धस्याऽर्थस्य स्पष्टं बोधो यथा स्यादित्यनुवादा
.
.