SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते विलक्षणं तदुपदिश्यते इति शिष्यमोहं बिभित्सुराह सुलभं वागनुच्चारं मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् ॥७॥ सुलभमिति । वागनुच्चारम्-वाचो भाषायाः, शब्दस्येत्यर्थः । अनुच्चारोऽनुदीरणं यत्रेति व्यधिकरणबहुव्रीहिः । तत्तादृशं वाङ्: निरोधात्मकमित्यर्थः । मौनम्-लोकप्रसिद्धं मुनित्वम् , एकेन्द्रियेषुएकं केवलं स्पर्शग्राहक स्पर्शनमिन्द्रियं येषां ते तादृशाः पृथिव्य. म्बुतेजोवायुवनस्पतयस्तेषु जीवेष्वपि, सुलभम्-अनायाससाध्यम् , सुकरमित्यर्थः । अपिना तादृशमौनस्याऽकिञ्चित्करत्वं द्योत्यते । सावधप्रवृत्तिसत्त्वे तादृशं मौनं लोकवञ्चनाय दम्भमात्रमत एवाऽशुभमपीति हृदयम् । तु विशेषेभेदे च । तदाह -पुद्गलेविति । योगानाम्-कायवाङ्मनोव्यापाराणाम् , पुद्गलेषु-अनात्मनीनेषु सकचन्दनाऽनादिषु, अप्रवृत्ति:-रागात्मवृत्त्यभावः, तद्रूपेत्यर्थः । सर्वथाऽप्रवृत्ते रमुक्तानामसम्भवादिति बोध्यम् । योगनिरोधाद्यात्मकः संवर इति यावत् । मौनम्-मुनित्वम् , उत्तमम्-आत्मस्वभावलाभाऽ. नुकूलत्वादुत्कृष्टं शुभमुपादेयश्चेत्यर्थः । यदुक्तम्-" आश्रवः सर्वथा हेय उपादेयश्च संवर" इति, “ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणमि "ति भावः । एवञ्च न वानिरोधमात्रेण कृतकृत्यताऽपि स्वास्रवनिरोधेनेति संवर एव मनिं परमार्थत इति सारार्थः । अत्र मौनशब्दस्य द्विरुक्तिः साधारणजनमौनमन्यन्मुनिमोनं चाऽन्यदिति बैलक्षण्यविस्फोरणायेति न पुनरुक्तिः शङ्क्या ।। ७ ।।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy