________________
ज्ञानसारे मौनाऽष्टकम्
वृद्धिः, "शोथस्तु श्वयथुःशोफ" इति हैमः । वा-तथा, यथायादृशम् , वध्यमण्डनम्-यज्ञादी बलित्वेन कल्पितम्य बध्यस्याऽजादे मण्डनं पुष्पमालादिनाऽलङ्करणम् , तथा-तादृशम् , भवोन्मादम्-भवस्य लक्षणया भवसम्बन्धिस्त्रक्चन्दनाङ्गनाद्युपभोगजसुखस्य य उन्मादश्चित्तविप्लवः, तादृशसुखार्थं व्यासङ्गाद्विवेकपरित्यागेनाऽनात्मनीना प्रवृत्तिरित्यर्थः । उन्मत्तो हि विवेकभ्रष्टत्वादनात्मनीनेऽपि कार्ये प्रवर्तते इति प्रसिद्धम् । " उन्मादश्चित्तविप्लव " इति हैमः । तं तादृशं भवोन्मादम् , जानन्-विवेकेनाऽवधारयन् , मुनिः-उक्तस्वरूपः साधुः, आत्मतृप्तः-आत्मन्यात्मस्वभावे सम्यक्त्वादौ तृप्तः प्रीतः,, भवेत्-स्यात् । शुद्धज्ञानादिनाऽऽत्मसुखलाभार्थमेव प्रवर्त्ततेति हृदयम् । शोफस्य पुष्टत्वं पीडावृद्धये, बध्यस्याजादेर्मण्डनं च कालप्राप्तं वधमेव सूचयति, तदेतदुभयमप्यनिष्टम् । तथा भव एव जन्मजरादिदुःखमूलतया दुःखम् । तत्राऽनुरागश्च तवृद्धय एवेति शोफपोषबध्यमण्डनवदेवाऽनिष्टोऽत एव विना विलम्वं हेयश्चेति ज्ञानदृशा पश्यन् मुनिरात्मसुखार्थमेव यतेत, तस्यै कान्ताऽनन्ताऽखण्डत्वादपायशङ्का या अपि तत्राऽभावात् । एतेन भवसुखं वस्तुतो वध्यमण्डनादिवदुःखपरम्पराऽऽपादकमेवेत्यात्मस्वभावलाभार्थ प्रयतमानस्य तादृशं सुखं हीयते चेत्कामं हीयताम् । तद्धि हेयमेव, आत्मसुखस्यैवेष्टत्वादुपादेयत्वात् । यदुक्तम्-" सम्यग्दर्शन शुद्धं यो ज्ञानं विरतिमेव चाऽऽप्नो. ति। दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्मे "ति भावः ॥ ६ ॥
ननु लोके मौनं वानिरोध इति प्रसिद्धम् । भवता च