SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३८ भद्रकरोदयाख्यव्याख्याविभूषिते. अनुभव इत्यर्थः । साक्षात्कार इति यावत् । न, भवेत्-न स्यात् , ननु मा भूच्छुद्धात्मस्वभावाऽऽचरणम् , तत आत्मशुद्धिलाभोऽप्यतिबहुरिति चेत्तत्राऽऽह-फलमिति । वेति तथेत्यर्थे । दोषनिवृत्तिःदोषाणां कर्मरागद्वेषादीनां निर्वृत्तिस्त्यागः, अभाव इत्यर्थः । कर्मादीनामभाव एव तत्त्याग इति बोध्यम् । तद्रूपमित्यर्थः । फलम् - कार्यम् , यतो नेति सम्बध्यते । तत्-तादृशं शुद्धात्मचरणस्य दोषनिवृत्तेश्चाऽहेतुः, ज्ञानम्-बोधः, सम्यग्ज्ञानमित्यर्थः । न-नैव, ज्ञानं हि सम्यग्ज्ञानं यत आत्मसाक्षात्कारो दोषनिवृत्तिश्च, अनीदृशं त्वज्ञानम् , अन्यथा त्वज्ञानं किं नाम स्यादिति भावः । तथा, दर्शनम्-सम्यग्दर्शनम् , न-नैव, तदितिसम्बध्यते। वस्तूनि बर्थक्रियाकारित्वमेव तत्त्वम् , सम्यग्ज्ञानदर्शनयोश्चाऽऽत्मज्ञानं दोषनिवृविश्वाऽर्थक्रियेति तदभावे तदभावः । कार्याऽभावस्य कारणसाकल्याऽभावसाधकत्वात्, कारण साकल्ये कार्याऽवश्यंभावात् । ततश्च कामं सन्त्वात्मचरणहेतवो ज्ञानादयो बहवः, फलेनैव हि तेषां तत्त्वमुपादेयत्वं चेति भावः ॥ ४ ॥ ५ ॥ ननु तादृशज्ञानेनाऽऽत्मस्वभावलामेऽपि भवसुखं हीयते इति मुनित्वे निरुत्साहं शिष्यमुपदिशन्नाह - यथा शोफस्य पुष्टत्वं यथा वा वध्यमण्डनम् । तथा जानन् भवोन्मादमात्मतृप्तो मुनिर्भवेत् ॥ ६ ॥ यथेति । यथा-यादृशम् , शोफस्य-रोगविशेषजनितहस्तपादाबुच्छूनतात्मकशोथस्य, पुष्टत्वम्-अम्लादिभक्षणेन रसवैगुण्या
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy