SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे मौनाऽष्टकम् __ यत इति । यतः-यस्या मणिज्ञप्तेर्मणिश्रद्धायाश्च, मणौमणिपदवाच्ये हीरकादिमणिविषये, प्रवृतिः-प्रसक्तिः, न-नैव, लभ्यते-प्राप्यते, अपि त्वन्यत्रैव कुत्रापि निःसारोपलादावेव प्रवृत्तिलभ्यते, अमणौ मणित्वाऽध्यासमूलाभ्यां मिथ्यामणिज्ञानदर्शनाभ्यां हि सत्यमणेः परिच्छेदाऽसम्भवान्मणौ प्रवृत्ति लब्धुं न शक्यते इति भावः । ननु यद्यमणेरपीष्टसिद्धिः, कामं मा भून्मणौ प्रवृत्तिहोनेरभावादित्यत आह-वेति । तथेत्यर्थः । तत्फलम्-मणिफलम् , मण्याश्रितं प्रकाश विषाऽपहारादिकं फलं कार्यमित्यर्थः । न-नैव, लभ्यते इति सम्बध्यते। नहि मणिं विना तत्फलसम्भवः, अन्यथा तत्तत्फलमेव न स्यादिति मणौ प्रवृत्त्यलामे तत्फलाऽलाभोऽपीति भावः। सा-तादृशी, मणिज्ञप्तिः-मणिरीदृग्भवतीत्येवं मणिविषयकं ज्ञानम् , मणिश्रद्धा-अयं मणिरेवं मणिविषया श्रद्धा प्रतीतिः, चः समुच्चये । यथा-येन प्रकारेण, अताविकी-अवास्तवी, अयथार्था, भ्रमात्मिकेत्यर्थः । मिथ्येति यावत् । ज्ञानस्य श्रद्धायाश्च संवादित्वमेव प्रमात्वम् । एवञ्च यदि मणिज्ञप्त्या मणिश्रद्धया चाऽमणिरेव विषयीक्रियते, तदा व्यक्तं विसम्बादित्वमिति तदप्रमैवेति हेयैव । उपादेया तु संवादिन्येव मणिज्ञप्तिर्मणिश्रद्धा च, इष्टार्थसम्पादकत्वादित्यनुपयोगित्वा तादृशमणिज्ञप्तिमणिश्रद्धयोरतात्त्विकत्वमिति भावः । ननु यथेति किमित्याह-तथेति । तद्वदेवेत्यर्थः । यतः- यस्माज्ज्ञानाद्दर्शनाच्च, शुद्धात्मस्वभावाचरणम्-शुद्धो निरुपाधित्वानिर्विकल्पत्वाच शुद्धं जलादिकमिव निर्मलो य आत्मस्वभावः सच्चिदानन्दरूपस्तस्याऽऽचरणमासेवनम् ,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy