________________
१३६
भद्रङ्करोदयाख्यव्याख्याविभूषिते
प्राप्यम्, शुद्धज्ञाननये आत्मचरणस्यैव रत्नत्रयात्मकत्वाचेनैव सर्वसाधनादुपायान्तराऽभावाच्चेति तात्पर्यम् । क्रियानये- क्रियेवैकं न तु ज्ञानदर्शने इति क्रियासङ्ग्रहनयमते । ज्ञानं ह्यात्मनो विषयतया प्रतिभासात्मको व्यापार इति क्रियैव, दर्शनं तद्विशेष एवेति तत्सुतरां क्रियेति भावः । क्रियालाभात् क्रियाप्राप्तेः, आवश्यक । दिक्रियापालनादित्यर्थः । क्रियान्तरस्य चारित्राद्यसाधन त्वादिति बोध्यम् । चारित्रं ज्ञानं दर्शनं वा साध्यमिति सम्बध्यते । अयम्भावः - चारित्रादिसिद्धे र्द्वयी रीतिः, ज्ञानेन क्रियया च । तत्र यो मुनिर्ज्ञानसङ्ग्रहमतिस्तस्याऽऽत्मचरणाद्यश्च क्रियासङ्ग्रहमतिस्तस्य क्रियातश्च चारित्रादिसाध्यम् । चारित्रादि चेह ज्ञानाक्रियाफलात्मकाssत्मपरिणामः कार्ये कारणोपचारात् । चारित्रादेरात्मचरणात्मकत्वात्क्रियात्मकत्वाच्च ज्ञानं क्रियां वा किमप्येकमाश्रित्य रत्नत्रयसाधनमिति परमार्थः ॥ ३ ॥
नन्वात्म चरणस्य लोके बहवः पन्थानः स्वस्वोत्तमत्वेन प्रवृत्ता इति मोहो मा भूदिति शिष्यमनुजिघृक्षन् हेये उपादेये च ज्ञाने विवेकं युग्मेन ग्राहयति -
यतः प्रवृत्तिर्न मणौ लभ्यते वा न तत्फलम् । अती मणिज्ञप्ति मणिश्रद्धा च सा यथा ॥ ४ ॥ तथा यतो न शुद्धात्मस्वभावाऽऽचरणं भवेत् । फलं दोषनिवृत्तिर्वा न तज्ज्ञानं न दर्शनम् ॥ ५ ॥
●
( युग्मम् )