________________
ज्ञानसारे मौनाऽष्टकम्
१३५
मात्मनि ज्ञानोपयोगश्चारित्रमात्मज्ञानं ज्ञानमात्मन्येव चोपयोगः सम्यक्त्वमिति गुणगुणिनोरभेदनये तदभिन्नाऽभिन्नस्तदभिन्न इति न्यायेन दर्शनज्ञानचारित्राणामैक्यमिति सुष्ठूक्तं-“मौनमेव सम्यक्त्वं सम्यक्त्वमेव वा मौनमि"ति ध्येयम् ॥ २ ॥ '
ननु सति वस्तुन्यभेदो भेदो वा ग्राह्य इति तादृशं रत्नत्रय कथं साध्यमिति शिष्यजिज्ञासां समादधान आह
चारित्रमात्मचरणाज्ज्ञानं वा दर्शनं मुनेः। शुद्धज्ञाननये साध्यं क्रियालाभात्क्रिया नये ॥३॥
चारित्रमिति । मुनेः-जगत्तत्त्वमन्तुः सम्यक्त्ववतश्चारित्रादि. सिद्धिनिघानज्ञानबन्धुरस्य विधातुः, शुद्धज्ञाननये-शुद्धं केवलं यज्ज्ञानं तन्नये, शुद्धज्ञाननयमत इत्यर्थः । एकं ज्ञानमेव केवलं न तु चारित्रं वा दर्शन वा, ते हि ज्ञानस्यैवाऽवस्थाविशेषौ । भासवरोधो हि चारित्रं तच्च ज्ञानेन कृत्वा, अज्ञानिनस्तदसम्भवात् । अन्यथा सर्वोऽञ्जसैव मुच्येत । कार्यकारणयोश्चाभेदः । यद्वासंवर आत्मपरिणामो नियतसाहचर्यश्च ज्ञानेन । गुणगुणिनोश्चाऽ. भेद इति तदभिन्नाऽभिन्नस्तदभिन्न इति चारित्रं ज्ञानमेव, दर्शनं तु व्यक्तमेव ज्ञान विशेषस्तत्त्वश्रद्धानात्मकमिति ज्ञानमेवैकं न त्वन्यच्चा. रित्रादिकमित्येवं ज्ञानसझहनय इति तात्पर्यम् । आत्मचरणात्आत्मचरणमनुष्ठायेति यब्लोपे पञ्चमी । आत्मचरणं चाऽत्मन्येवाऽऽस्मनो ज्ञानमित्यनुपदमेव प्रतिपादितमवगन्तव्यम् । चारित्रम्-संवरः, ज्ञानम्-सम्यग्ज्ञानम्, दर्शनम्-तत्त्वार्थश्रद्धानम् , वेति समुच्चये, तेनाऽनुकमपि क्षायिकदर्शनज्ञान चारित्रं समुच्चीयते । साध्यम्