SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ भद्रङ्करोदयाख्यव्याख्याविभूषिते आत्मेति । आत्मा-ज्ञानादीनामात्मस्वभावत्वाद्धर्मधर्मिणोरमेदाद्विषयीकर्ता स्वप्रकाशो जीवः, आत्मनि-विषयतया स्वाऽ. मिन्नत्वात्स्वस्वभावात्मकज्ञानादिप्रतिष्ठिते स्वस्मिन् विषय एव, न तु परत्र, तथा सति भेदबुद्धेरनुपवेशाच्छुद्धात्मज्ञानाऽसम्भवादिति हृदयम् । आत्मना-अभिन्नेन स्वस्वभावेन ज्ञानादिना स्वेच, विद्ययेति यावत् । विद्यैव ह्यात्मन आत्मेति ध्येयम् । शुद्धम्कर्मोपाधिरहितत्वान्निर्मलं सच्चिदानन्दमयं स्वस्वरूपम् , यजानाति-- यदवबुध्यते, साक्षात्कारोतीत्यर्थः । यदित्युद्देश्ये । सा-तादृशी, इयम्-आत्मज्ञानम् , मुनेः-उक्तप्रकारस्य जगत्तत्त्वमन्तुः, रत्नत्रयेदर्शनज्ञानचारित्रात्मकानामभव्यैर्दुर्लभत्वाद्भव्यैरपि चिरार्जितपुण्यपुञ्जप्रभावादेवाऽतिपयस्य लभ्यत्वाद्रत्नानामिव रत्नानां त्रये, व्ययवे दर्शनाद्यात्मकरत्नविषये इत्यर्थः । ज्ञप्तिरुच्याचारकता-ज्ञप्ति निं रुचिः सम्यक्त्वमाचारश्चारित्रं च तेषामेकताऽभेदः, भवतीति शेषः । यद्वा-रत्नत्रयज्ञप्तिरुच्याचारक तेति पाठः । रत्नत्रयस्य ज्ञप्तिरुच्याचारात्मकतया रत्नत्रये एकतेत्यतावतै वेष्टार्थलाभादनन्वितार्थ. त्वच्च प्राक्तनपाठस्य । ततश्चातिदुर्लभतायाः श्रेष्ठत्वाच्छुद्धत्वाच रत्नत्रया इव रत्नत्रया ये ज्ञप्तिरुच्याचारास्तेषामेकतेत्यर्थः । मुनेसत्मन आत्मनि ज्ञानेन शुद्धस्वरूपसाक्षात्कार एव दर्शनं ज्ञानमाचारश्च । एतेषां ह्यात्मज्ञान एव परिसमाप्तेः । तदवस्थायां सर्वयोगादिपरित्यागेन श्रद्धानाद्यात्मकस्थूलदर्शनाद्यसम्भवात् । तदुक्तम्" निर्विकल्पे पुनस्त्यागे न विकल्पो न च क्रिये"ति, “ ज्ञाना. चारादयोऽपीष्टाः शुद्धस्वस्वपदावधी"ति चेति बोध्यम् । तदेव
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy