________________
ज्ञानसारे मौनाऽष्टकम्
१३॥
" श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिरि "ति भावः । स:-तादृशो जनः, मुनिः-उक्तप्रकारव्युत्पत्त्या मुनिशब्दवाच्यः, मन् धातोरोणादिक इप्रत्ययोऽकारस्योकारश्च बोध्यः। जगत्तत्त्वमननं मुनिशब्दप्रवृत्तिनिमित्तमिति सारार्थः । न चैषा स्वमनीषेत्याह-परिकीर्तितः-वर्णितः, तज्ज्ञैरितिशेषः । एवञ्च मुनिशब्द. स्योक्कार्थे व्यवहारप्रामाण्यमिति सूच्यते । तत्-मुनिशब्दस्योक्तार्थपरिकीर्तनाद्धेतोः, मौनम्-मुनेर्भावः, मुनिशब्दप्रवृत्तिनिमित्तमित्यर्थः । मुनिलक्षणमिति यावत् । सम्यक्त्वम्-आगमादिपतिपादित जगत्स्वरूपश्रद्धानम् , एवकारेण प्रकारान्तरेण कन्दमूलाद्यशनवनवासादिमात्रेण वाङ्निरोधमात्रेण वा मौनव्यवच्छेदः । ननु किं नाम सम्यक्त्वमित्यपेक्षायामाह-मौनमिति । वेति तथेत्यर्थे । सम्यक्त्वम्-सम्यगितिपदार्थतत्त्वम्, सम्यक्पदप्रवृत्तिनिमित्तमित्यर्थः । मौनम्-जगत्तत्वमननम् , अत्राऽप्येवकारेण चारुत्वादि. रूपप्रकारान्तरेण सम्यक्त्वव्यवच्छेदः । यदुक्तम्-" तत्त्वार्थश्रद्धानं सम्यग्दर्श नमि "ति । उभयत्रैवकारेण मौनसम्यक्त्वयोरभेदो ध्धन्यते ॥ १॥
ननु मुनेर्भावः कर्म च मौनम्, सम्यक्त्वं च मुनेर्भाव एवं न तु कर्मेति कथं द्वयोरभेद इति शिष्यसम्मोहव्यपोहाय मुनेदर्शनज्ञानचारित्राणामैक्यमुपपादयन्नाह
आत्माऽऽत्मन्येव यच्छुद्धं जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्तिरुच्याचारकता मुनेः ॥२॥