________________
९३२
भद्रकरोदयाख्यव्याख्याविभूषिते लक्षणमित्याशयेनाऽऽह-एतत्-परस्पृहा निःस्पृहत्वं च, समा. सेन-सङ्केपेण, सुखदुःखयो:-अनुकूलप्रतिकूलवेदनीययो लोके तथाख्यातयोः सुखदुःखयोः, लक्षणम्-चिह्नमसाधारणधर्मो वा, कार्यकारणयोरभेदात् । उक्तम्-कथितम् , तज्ज्ञैरितिशेषः । तस्मासर्वोपायेन स्पृहा त्याज्या निःस्पृहत्वं च साधनीयमितिहृदयम् ॥८॥ इति श्रीज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्न्यासप्रवरश्री यशोभद्रविजयजीगणिवरशिष्यपन्न्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां नि:स्पृहाऽष्टकं
नाम द्वादशमष्टकम् ॥ १२॥
॥ मौनाऽष्टकम् ॥ १३ ॥ यदुक्तं " निःस्पृहो जायते मुनि "रिति, तत्र को मुनिरिति शिष्यजिज्ञासां समाधित्सुराह
मन्यते यो जगत्तचं स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौनं मौनं सम्यक्त्वमेव वा ॥१॥
मन्यते इति । यः-यत्प्रकारः पुण्यात्मा जनः, जगत्तत्वम्जगतो धर्माऽधर्माऽऽकाशपुद्गलजीवात्मकस्य लोकस्य तत्त्वमागमशास्त्रादिषु प्रतिपादितमुत्पादव्ययध्रौव्याद्यात्मकं पारमार्थिकं स्वरूपम् , मन्यते-श्रद्धत्ते, श्रद्धया जानाति च, यद्वा साधकबाधकप्रमाणैः कृत्वा परीक्षणात्मकेन मननेनाऽऽगमादिप्रतिपादितं जगत्तत्त्वं जात. अद्ध “ इदमित्थमेवे" त्येवमवधारयतीत्यर्थः । यदुक्तम्