________________
ज्ञानसारे नि:स्पृहाष्टकम्
१३१
दुःखमित्यायातीति शिष्यव्यामोह विभित्सया स्पृहाया दुःखात्मस्त्रं
प्रतिपादयन्नुपसंहरति
―
परस्पृहा महादुःखं निःस्पृहत्वं महासुखम् ।
एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ ८ ॥ इति न्यायविशारद महामहोपाध्याय श्री मद्यशोविजयोपाध्याय - विरचिते ज्ञानसारे नि:स्पृहाऽष्टकम् ॥ १२ ॥
3
परस्पृहेति । परस्पृहा - आत्मनः परो भिन्नः पुद्गला दिस्तस्य स्वभिन्नस्वामिकवस्तुनश्च स्पृहा गृद्धिः, महादुःखम् - दुःख जालमूललोकलाघवभवपरम्परादिसाधनत्वान्महत्वऽधिकं दुःखं दुःखहेतुरित्यर्थः । कारणे कार्योपचार एकान्तेन दुःखहेतुत्वसूचनायेति बोध्यम् । यद्यपि स्वहेत्येतावतैव परस्पृहा लभ्यते, न चाऽऽत्मधर्मस्पृहा स्पृहा तस्याऽशुभाऽननुबन्धित्वात् । तथापि तादृश लोकप्रयोगरूढ्याऽऽत्मसर्वस्व सम्यग्दर्शनादिस्पृहायाः सुखमूलत्वाद हेयत्वादवश्यमुपादेयत्वाच्च तद्रहनिवृत्तये च परपदमिति सन्तोष्टव्यम् । तथा, निःस्पृहत्वम्-स्पृहाराहित्यम्, वीतरागतेत्यर्थः । महासुखम् - महदसाधारणं सर्वोत्तमं च सुखं सुखजनकम् | कारणे काय चार एकान्तेन सुखजनकत्वसूचनायेति ध्येयम् । यदुक्तम्- " निस्पृहस्याsहो चक्रिणोऽप्यधिकं सुखमिति " वयमिद परितुष्टा वल्कलै स्त्वं दुकूलैः सम इह परितोषे निर्विशेषो विशेषः । स तु भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्र " इति च । तदेवमवश्यं सुखदुःख जनकत्वा देवदेव सुखदुःव