SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे मौनाष्टकम् १४१. तदेवमुक्तप्रकारेण मौनं निरुच्य तत्कीदृशेन कथं च साध्य - मिति शिष्यमुपदिशन्नुपसंहरति ― ज्योतिर्मयीव दीपस्य क्रिया सर्वाऽपि चिन्मयी | यस्याऽनन्यस्वभावस्य तस्य मौनमनुत्तरम् ॥ ८ ॥ इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचितं ज्ञानसारे मौनाष्टकं नाम त्रयोदशमष्टकम् ॥ १३ ॥ ज्योतिर्मयीवेति । यस्य - यादृशस्य पुण्यशालिनः, अनन्यस्वभावस्य - अविद्यमानोऽन्य आत्मभिन्ने पुद्गलादौ प्रवृत्तिरूपः स्वभाव आत्मपरिणामो यस्य स तादृशस्तस्य, आत्मतृप्तस्येत्यर्थः । सर्वा-सकला, न तु एका द्वे एव वा सर्वेत्यनेन क्रियासामान्य होsपिना द्योत्यते, सर्वैवेत्यर्थः । क्रिया-प्रवृत्तिः, आहारसंस्तरा-दिविधिरित्यर्थः । दीपस्य- प्रदीपस्य, ज्योतिर्मयी - प्रकाशात्मिका क्रिया, ज्वलनरूपेणेति बोध्यम् । चिन्मयी - ज्ञानपूर्विका ज्ञानाऽनुविद्धा सज्ज्ञानफला च । प्रमादपरिहीणेति यावत् । यथा दीपस्य प्रकाशात्मनो ज्वलनक्रिया प्रकाशात्मिकैव सर्वा भवति, तथा यस्य सम्यग्ज्ञानिनः क्रिया प्रमादपरिहीणत्वाज्ज्ञानात्मिकेत्यर्थः । तस्यतादृशस्याऽनन्यस्वभावस्य मुनेः, मौनम् - निरुक्तप्रकारं मुनित्वम्, अनुत्तरम् - अविद्यमान उत्तरोऽधिको यस्मात्तादृशम् । अन्यक्रियादुर्लभात्मस्वभाव लाभाऽनुगुणत्वात्सर्वोत्कृष्टं तन्मौनम् नातः परं किमपि मौनमिति तादृशं मौनं सम्यग्ज्ञानवताऽप्रमत्तया क्रिययाः साध्यमिति हृदयम् ॥ ८ ॥ ,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy