________________
१२८
भद्रङ्करोदयाख्यव्याख्याविभूषिते
निष्कृष्टोऽर्थः । गौरवम्-महत्त्वम् , अहं पौरैः सर्वैरेव वन्द्यः, नाऽन्यो मादृशो महानित्येवमात्मोत्कर्षमित्यर्थः । तथा, प्रतिष्ठयास्वस्य लोककर्तृकसमादरेण, लोकेऽयं निःस्पृहत्वादुत्तम इत्येवंप्रभावेण वा, प्रकृष्टत्वम्-मम सुगुण विशेषवैशिष्ट्येन हेतुना लोकेषु प्रकर्ष इत्येवं लोकवैलक्षण्यम् , किञ्च, जातिगुणात्-जातिश्च गुणश्च, तयोः समाहारस्तस्मात् , उच्चगोत्रहेतोः पौरवन्धत्वादेनिःस्पृहत्वादेश्च गुणाद्धेतोः, ख्यातिम्-प्रसिद्धिम् , अहमुच्चकुल. प्रसूतः, मम गुणान् सर्वे जानन्ति, तदहं लोके प्रसिद्ध इत्येवं प्रसिद्धिमित्यर्थः । न-नैव, प्रादुष्कुर्यात्-प्रकटयेत् । लौकिकस्वार्थसिद्ध्यै एव हि स्ववैशिष्ट्यं प्रकटयन्ति जनाः, निःस्पृहस्य तु न कोऽपि स्वार्थ इति तस्य स्ववैशिष्ट्यख्यापनं निरर्थकम् , स्ववैशिष्ट्य. प्रकटनेन स्पृहायाः पुनरुत्थानसम्भावनायाः सापायं चेति भावः ॥६॥
शिष्यस्य निःस्पृहत्वे रुचिर्यथा स्यादिति फलोत्कर्षेण धर्मिमुखेन निःस्पृहत्वं स्तौतिभः शय्या भैक्षमशनं जीणं वासो गृहं वनम् । तथाऽपि निःस्पृहस्याऽहो ? चक्रिणोऽप्यधिकं सुखम् ।। ७ ।।
भूःशय्येति । भृ:-भूः पृथवी सैव, शय्या-शयनसाधन. संस्तरणं शयनं वा, सा । लोके हि नितरां दुर्गतस्य द्रव्याऽभावा. त्पर्यकादिशयना ऽ सम्भवात्परिशेषात्कठिनस्पर्शादिनाऽनभिमता ऽपि भूरेव शय्या शरणमिति सा शयितुर्दुःखाधिक्यं प्रकटयति, लौकिकसुखस्पृहावतः पर्यकादिष्वेव तादृशसुखाऽनुभवात् । निःस्पृहस्य तु