________________
ज्ञानसारे निःस्पृहाऽष्टकम्
ताशसुखस्पृहाऽभावादात्मसुखनिममत्वात्तत्र च बाह्यनिमित्ताऽनपेक्षणान्न काऽपि दुःखाऽनुभवः, सुखानुभव एवेति न दुःखाऽनुभव गन्धोऽपीति सारः । न केवलं शय्यादुःखमपि तु भोजनदुःखमपी. त्याह-भैक्षम्-मिक्षाणां समूहो भिक्षाभिः प्राप्तमन्नादिकमित्यर्थः । अशनम्-भोजनम् , क्षुदुपशमसाधनमित्यर्थः । भैक्षं ह्यन्नमनभिमत. प्रकारमपथ्यमस्वादु लघुत्वप्रयोजकत्वात्कुत्सितं च दरिद्राणामेकमात्रं शरणमिति तदपि दुःखसाक्षि स्पृहावताम् । निःस्पृहस्य तु स्पृहा. ऽभावान भैक्षमनिष्टम् । सर्वावस्थास्वात्मसुखमग्नताया भावादिति तत्त्वम् । वस्त्रदुःखमाह-जीर्णम्-चिरादुपभुक्तदग्धोत्कीर्णशीर्णमित्यर्थः । वासः-लज्जागोपनसाधनं परिधानवस्त्रम् । एतदपि दौर्गत्यतिशयलिङ्गं लौकिकं स्पृहावतः । निःस्पृहस्य तूक्तहेतोरेव न तथेति बोध्यम् । वनम्-उपवनं काननं च, गृहम्-गृहमिवाऽऽश्रयत्वाग्रहम् । न हि सुखिनो वने वसन्ति, न वा वनवासिनो लौकिकं सुखमिति तदपि दुःखाधिक्यगमकमेव । निःस्पृहस्य तथा नेति स्पष्टम् । एतानि हि लोकप्रसिद्धानि दुःखसाधनानि, लोके हि शय्याहीनो भैक्षोपजीवी जीर्णवस्त्रो गृहविहीनश्च स्वं परं दुःखाचे मन्यते । सर्वं चैतदेवमेव निष्परिग्रहत्वात्साधोः, तथापि-तादृशभूशय्यादिलोकप्रसिद्धदुःखसाधनसद्भावेऽपि, नि:स्पृहस्य-स्पृहारहितस्य साधोः, चक्रिण:-उपलक्षणस्वाञ्चक्रिदेवेन्द्रादेः, अपिना तस्य तस्य लौकिकसर्वोत्कृष्टपुखसामग्रीसमग्रत्वं सूच्यते । लोके महापपर्यादिशय्या षड्रस भोजनं स्वाधीनं नवक्षोमादिवस्त्रं हH