________________
ज्ञानसारे निःस्पृहाऽष्टकम्
१२७
एषा लौकिक्यापत्तिः । स्पृहावशात्मार्थयमाना हि न सस्क्रियन्ते. ऽपि तु दुर्वचनादिना निर्भय॑न्ते हीनसत्त्वाच्चोत्तमेषु प्रवेश नाऽर्हन्तीत्यादिना लघुत्वमाप्ताः प्रसिद्धा एव । पारलौकिकीमापत्ति. माह-महाश्चर्यमिति । तथाऽपि-तृणतूलवल्लघुत्वसद्भावेऽपि, एतेस्पृहावन्तः, भववारिधौ-भव एव कर्मजलराशिपूर्णत्वादनादित्वाद्विपुलत्वाद्दुस्तरत्वाच्च वारिधिः समुद्रः, तत्र, मजन्ति-ब्रुडन्ति, भवपरम्परारूपं सशिखमजनं परियान्तीति यावत् । तदेतल्लघूनां समुद्रमजनम् , महाश्चर्यम्-महदितरेभ्यः साऽतिशयमाश्चर्य वि. स्मयः । लघूनां लाघवाद्धेतोस्तरणं प्रसिद्धम् , एतच्च विपरीतमित्यपूर्वत्वाद्विस्मयकरम् । तदेव ह्याश्चयं यदपूर्वमिति भावः । स्पृहया लोके लाघवं महारम्भपरिग्रहाच्च भवोपग्राहिकर्मबन्धाद्भवपरम्परा चेति सैहिकाऽऽमुष्मिकदुष्परिणामहेतुरित्यवश्यं त्याज्येति भावः । अत्र लघूनां मज्जनं विरुद्धमिति विरोधाऽऽभासोऽलङ्कार उपमारूपकसङ्कीर्णः ॥ ५॥ . .
निःस्पृहत्वं चिरस्थायि यथा स्यादिति तद्विघ्नपरिहारं शिष्यमुपदिशन्नाह
गौरवं पौरवन्धत्वात्प्रकृष्टत्वं प्रतिष्ठया । ख्याति जातिगुणात्स्वस्य.प्रादुष्कुर्यान्न निःस्पृहः ॥६।।
गौरवमिति । निःस्पृहः-स्पृहाविरहितो जनः, स्वस्य-स्व. सम्बन्धि, स्वकीयमित्यर्थः । पौरवन्धत्वात्-पुरस्येमे पौराःपुरवासिनस्तैः कर्तृभिर्वन्द्यत्वादभिवादनीयत्वात् , पौरवन्द्यत्वहेतुकमिति