SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२६ भद्रङ्करोदयाख्यव्याख्याविभूषिते 1 दुरितावत्वादशुभत्वाद्गर्ह्यत्वादसम्पचनीयत्वादस्पृश्यत्वाच्च चाण्डाली श्वपाकी, तस्याः सङ्गं सम्पर्कम्, अङ्गीकरोति स्वीकरोति, अनात्मरतिं जनयतीति यावत् । यथा चाण्डाल्याः पापास्पदत्वाद्गत्वादस्पृश्यत्वाच्च संसर्गः पातित्यं प्रयोजयति, यदुक्तम् -" संसर्गश्चाऽपि तैः सहे 'ति । ततस्तत्संसर्गी जनः पतितत्वादशुचित्वादस्पृश्यत्वात्कथञ्चिद् गृहागतोऽपि तज्ज्ञेन झटिति गृहान्निष्कास्यते, यथा तत्संसर्गास्त्रस्याऽपि पातित्यं मा भूदिति । तथा स्पृहादोषज्ञेन जनेन स दोषो मा जनीति स्पृहा चित्ते न कर्त्तव्येति सारार्थः । स्पृहाडनात्मप्रीतिप्रयोजकत्वादात्मबोध विरोधित्वाद्यथातथा व्याज्यैवाssत्महितेच्छुनेति हृदयम् । परम्परितरूपकालङ्कारः ॥ ४ ॥ अज्ञानात्प्रमादाद्वा स्पृहाया अपरित्यागे आपात्यामापति शिष्यं प्रदर्शयन्नाह - स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् । महाश्वर्यं तथाप्येते मज्जन्ति भववारिधौ ॥ ५ ॥ स्पृहावन्त इति । स्पृहावन्तः - साऽतिशयं परस्वगृध्नुः, भूम्नि मतुः । तृणतूलवत् - तृणानि घासास्तूलानि पिचवः, तानीव, " शष्पं बालतृणं घासो यवसं तृणमर्जुनमि "त्यमरः । " तूलकं पिचुरि "ति हैमः । लघवः - अगुरवः, हीनसत्त्वा इत्यर्थः । आत्मगौरवशून्या दीनहीनाचरणा वेति हृदयम् । पक्षेऽल्पपरिमाणा इत्यर्थः । विलोक्यन्ते - दृश्यन्ते, लोके इति शेषः । शब्दसाम्यादुपमा । तृणादीन्यपि हि लघुपरिमाणाल्लघूनीति बोध्यम् । स्पृहाया
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy