________________
ज्ञानसारे निःस्पृहाऽष्टकम्
तदेव बुधत्वं यद्बुद्धिबलात्स्पृहात्यागः, स्पृहैव चाऽबुधत्वम् , दात्रेण विषलताया इव ज्ञानेन स्पृहायाश्छेदः सुकर इति च ध्वन्यते । उपमाऽलङ्कारः । स च स्पृहाविषलतयो|देऽप्यभेदाऽध्यवसायमूलाऽतिशयोक्त्या श्लेषेण चाऽनुप्राणित इति सङ्करः ॥ ३ ॥
न केवलं स्पृहया मुखशोषादिना विगोपनाऽपि त्वात्मोत्कर्षाऽवरोधश्चेति तस्या अवश्यहेयत्वं शिष्यमुपदिशन्नाह
निष्कासनीया विदुषा स्पृहा चित्तगृहाद् बहिः । अनात्मरतिचाण्डालीसङ्गमङ्गीकरोति या ॥ ४ ॥
निष्कासनीयेति । विदुषा-हेयोपादेयविशेषज्ञेन जनेन, स्पृहा-कामः, चित्तगृहात्-चित्तमेव जनानामाश्रयभूतं गृहमिव स्पृहाया आश्रयभूतत्वाद्गृहम् , ततस्तदवधीत्यर्थः । बहिः-यथा न चित्ते भवेत्तथा, स्पृहायाश्चित्तेऽसत्त्वमेव तस्याश्चित्ततो बहिष्ट्वमिति बोध्यम् । निष्कासनीया-दूरीकरणीया, बहिष्करणीयेति मिलितार्थः । चित्ते स्पृहा न कर्त्तव्या, स्पृहात्मकचित्तवृत्तिस्त्याज्येति यावत् । यद्यपि निष्कासनीयेत्येतावताऽपीष्टार्थप्रतीतिरिति बहिःपदमधिकम् । तथाप्य " यं शठो बहिनिष्कास्यतामि "त्यादि. लोकप्रयोगरूढ्या तथा प्रयोगः । न च लोकः पर्यनुयोगमहतीति बोध्यम् । निष्कासनसमर्थनाय स्पृहां हेतुद्वारेण विशेषयति-यायादृशी स्पृहा, अनात्मरतिचाण्डालीसङ्गम्-न आत्माऽनात्माऽऽत्मभिन्नं धनधान्याद्यात्मकपौद्गलिकवस्तुजातम् , तस्य तद्विषय. स्वात्तत्सम्बन्धिनी या रतिः प्रीती रुचिप्सङ्गो रागो वा, सैव