________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
शून्यतात्यासक्तिश्चेति यावत् । स्पृहया हि जना हेयोपादेय. विवेकसंज्ञाविकलाः स्पृहितप्राप्तये प्रवर्त्तन्त इति विषप्रभावाच्च संज्ञा नश्यतीति च प्रसिद्धमेव । दैन्यम् - कार्पण्यम्, निःश्रीकत्व - मित्यर्थः । स्पृहाया दुष्पूरत्वात्पूरणेऽपि नवनवोत्पादाच्च सत्त्वं विली - यते, निःश्रीकता कार्पण्यं चाऽऽविर्भवतीति नाऽविदितं केषामपि । विषप्रभावाच्च कान्तिनाशाद्वैवर्ण्य निःश्रीकता च जायत इति प्रसिद्धम् । चद्वयं समुच्चये । तदेवं मुखशोषमूच्छदैन्यरूपमित्यर्थः । फलम् - परिणामं फलं च यच्छति प्रददाति, प्रयोजयतीत्यर्थः । ननु यदिति किमित्याह - स्पृहेति । यच्छब्दबलात्तामिति लभ्यते । मुखशोषमूच्छदिन्याऽऽत्मक फल हेतुभूतामिति तदर्थः । स्पृहाविषलताम् - स्पृहा कामः सा फलैक्या द्विषलता विषतुल्यपरिणामहेतु विषकारको वा लताविशेषो वत्सनागादिस्ताम्, यद्वा-यस्याः स्पृहाविषलतायाः फलं फलरूपम्, याञ्चाश्रमादिरूपं फलम्, पक्षे फलतया प्रसिद्धं फलं कर्तृ मुखशोषं मूर्च्छा च दैन्यं च फलं यच्छति, तां तादृशीम्, स्पृहापरिणामसाधर्म्याद्विषलता विषाक्तफलप्रदलताविशेषः सेव, तामित्यर्थः । बुधाः - स्पृहाविषलतादुष्परिणामविशेषज्ञाः, स्वभावलाभात् किमपि प्राप्तव्यं नाऽवशिष्यत " इत्यात्मैश्वर्यसम्पन्ना आत्मोत्कर्षमार्गज्ञा मुखशोषादिषु जाताऽप्रीतयः, ज्ञानदात्रेण - उक्तप्रकार हेयोपादेय विवेकात्मकज्ञानं स्पृहाविषलताच्छेदक्षमत्वाद्दात्रं छेदनसाधनशस्त्र विशेष इव तेन, छिन्दन्तिलुनन्ति, नाशयन्तीत्यर्थः । त्यजन्तीति यावत् । स्पृहायास्त्याग एव च्छेदो नाशो बेति ध्येयम् । दात्रेण हि लताच्छेदनं प्रसिद्धमेव ।
१२४
66
-