SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निःस्पृहाऽष्टकम् सत इत्यर्थः । कृते इति शेषः। नहि ज्ञानाधिक्यं विना निःस्पृहत्वं साध्यमिति विशेषणेनाऽनेन ध्वन्यते । जगत्-ता. स्थ्यात्ताच्छब्दयमिति जगत्स्थपोद्गलिकपदार्थसार्थः, तृणम-तृणतुल्यम् , तृणमिव निःसारमकिञ्चित्करं चेत्यर्थः । निःस्पृहस्य ज्ञानिनो न विषयेण प्रयोजनमिति तस्य जगत्तणमिवाऽनुपादेय मिति न तस्य काऽपि दैन्यप्रदर्शनाऽवसर इति स एव सर्वमहानिति सारार्थः । अत्राऽमात्रेति विशेषणेन सामान्यज्ञानवतो निःस्पृहत्वं क्षणिकं श्मशानवैराग्यकल्पमेव सम्भाव्यते, चिरस्थायि निःश्रेयससाधनं तु तज्ज्ञानाऽधिक्यादेव सम्भवतीति निःस्पृह एव प्रशस्तज्ञानवान् , अन्यादृशस्तु ज्ञान्यपि निर्गन्धकुसुमवदेवाऽप्रशस्य इति च सूच्यते। दैन्यं काऽपि मा जनीति निःस्पृहत्वं साधयेदिति हृदयम् ॥ २॥ शिष्यप्रबोधाय दुष्परिणामतया स्पृहाया हेयत्वमाहछिन्दन्ति ज्ञानदात्रेण स्पृहाविषलतां बुधाः । मुखशोषं च मूच्छा च दैन्यं यच्छति यत्फलम् ॥३॥ छिन्दन्तीति । यत्-यादृशी स्पृहाविषलता की, मुखशोषम्मुखस्योपलक्षणत्वात्कण्ठताल्वादेर्निरन्तरं सोच्छासं करुणं याचनाशब्दाधुच्चारणेन क्षुत्तृष्णाऽऽकुलेनाऽपि स्पृहणीयप्राप्तये कष्टोप्रप्रयास श्रमादिना च यः शोषः शुष्कता, नीरसतेत्यर्थः । विषलतापक्षे विषसम्पत्तिदौग्र्यादिजनितदाहात्कण्ठताल्वादिशोषः, तम् , मूर्छाम्-मूर्छा मोहः, नष्टसंज्ञता नष्टचेष्टता चेत्यर्थः । विवेक
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy