SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते शमाष्टकस्य निःस्पृहाष्टकस्य च पृथक्प्रतिपादनं पिष्टपेषणमिव । तथापि ज्ञानसारकर्त्रा निःस्पृहतापरिणामः शम इष्यत इति द्वयोः पृथक्प्रतिपादनम् । यदुक्तम् - " विकल्पविषयोतीर्णः स्वभावाssलम्बनः सदा । ज्ञानस्य परिपाको यः स शमः परिकीर्तितः" इति । हेमचन्द्राचार्योक्तिश्च कारणे कार्योपचारात्समाधेया ॥ १ ॥ १२२ निःस्पृहत्वे शिष्यस्य रुचि यथा स्यादिति सस्पृहनिःस्पृहयोगुणतारतम्यमाह - संयोजित करैः के के प्रार्थ्यन्ते न स्पृहावहैः । अमात्र ज्ञानपात्रस्य निःस्पृहस्य तृणं जगत् ||२|| संयोजित करैरिति । स्पृहाव है: - स्पृहाया आवहा वोढारः, स्पृहावन्त इत्यर्थः । आवहन्तीति वहेरच् । तृष्णातुरा इति यावत् । तैः कर्तृभिः, संयोजित करैः संयोजितौ स्वस्मिन् विषये करुणोत्पादनार्थं नमस्काराय सम्पुटितौ कृतौ करौ हस्तौ यस्तै र्बद्धाञ्जलिभिः सद्भिः । के के-वीप्सायां द्विरुक्तिः । प्रार्थनीया उत्तमा अप्रार्थनीया हीनाश्च सर्वे एवेत्यर्थः । न प्रार्थ्यन्ते -- काक्वा प्रान्त एवेत्यर्थः । स्वस्पृहितप्राप्तये इति बोध्यम् । धिक्स्पृहामधमेष्वपि स्पृहावतो दैन्यप्रयोजिकाम् । स्पृहावान् हि सर्वत्र सर्वदा च दीनतामेव प्रकटयतीति तात्पर्यम् । तदेवं स्पृहावतो लघुत्वमुपवर्ण्य निःस्पृहस्य महत्त्वमाह - निःस्पृहस्य - निरीहस्य, विषयविमुखस्येत्यर्थः । अमात्रज्ञानपात्रस्य न मात्रा परिमाणं यस्य तादृशस्य सम्यग्ज्ञानस्य यत्पात्रमाश्रयस्तस्य तादृशस्याऽपरिमेयज्ञानशालिनः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy