SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निःस्पृहाऽष्टकम् १२१ लाभस्य वैषयिकस्य हेयत्वाच्छुभस्याऽपि सम्यग्दर्शनादिलाभस्य स्वभावलाभसाधनत्वान्यूनत्वात् । न च मुक्तिलाभ उत्कृष्टोऽव. शिष्यते, मुक्तेः स्वस्वभावाऽनतिरिक्तत्वादिति हृदयम् । अथ च 'सर्वं पदं हस्तिपदे निमग्नमिति स्वभावलामे सर्वो लाभो गतार्थः । तस्य चरमलाभत्वादिति सुष्ठू क्तम्-"प्राप्तव्यं नाऽवशिष्यत" इति । इति-एवंप्रकारया भावनया कृत्वा, आत्मैश्वर्यसम्पन्न:-आत्मनो यदैश्वर्य प्रभुत्वं सम्यग्दर्शनादिकं तेन सम्पन्नः सम्भृतः, अथवाइति-स्वभावलाभ एव सर्वः परमश्च लाभ इत्येवंप्रकारमात्मन ऐश्वर्यमौदार्य महत्त्वं परमोत्कर्षश्च परमसर्वलाभात्मकलभ्यस्वभाव. स्वामित्वं च, तेन सम्पन्नः, तादृशज्ञानवानिति यावत् । मुनि:आत्ममननैकतानः साधुः, निःस्पृहः-स्पृहा तृषा, ततो रहितो निःस्पृहः, निरीहो निष्काम उपशान्ततृषो वा। विषयपराङ्मुख इति हृदयम् । “ इच्छा काङ्क्षा स्पृहेहा तृडि "त्यमरः । जायतेभवति । स्वभावलाम एव परमो लाभः सर्वलाभश्चेति सम्यग्ज्ञानसम्पन्नस्य मुने विषयेषु स्पृहाऽपकृष्टत्वाद्धेयबुद्धया निवर्तते । यस्य हात्मस्वभावे न तादृश्यास्था स एवाऽज्ञो विषयेषु स्पृहावान् भवतीति स्वभावलाभ एव परमो लाम इति भावना निःस्पृहतासाधनमिति हृदयम् । अत्र च प्रकारान्तरेणाऽप्यन्वयः सम्भवति । तथाहि-स्वभावलाभात् किमपि प्राप्तव्यं नाऽवशिष्यत इति बुद्ध्या निःस्पृहो मुनिरात्मैश्वर्येण शुद्धसच्चिदानन्दात्मकेन सम्पन्नो जायते । यावन्न निःस्पृहता तावन्नाऽऽत्मैश्वर्यलाभ इति तात्पर्यम् । यद्यपि " शमस्तृष्णोपरम " इति काव्याऽनुशासने हेमचन्द्राचार्य इति
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy