________________
१२०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
निर्लेपो हि भगवान् भवति सर्वेनमस्करणीयश्चेति निलेपतार्थ प्रमादपरित्यागेन सततमुद्यमवता भाव्यमिति हृदयम् ॥ ८ ॥ - इति श्रीज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्न्यासप्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्न्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां निलेपाऽएकं नामैकादशमष्टकम् ॥ ११॥
॥ अथ निःस्पृहाऽष्टकम् ॥ १२ ॥ ननु विषयेषु स्पृहावतो दोषपङ्कलेपो दुर्निवारः । यदुक्तम्" विषयान् ध्यायतः पुंसः सङ्गस्तेषूपजायते । सनात्सञ्जायते कामः कामास्क्रोधोऽभिजायत" इति । तस्मात्तादृशलेषपरिहारेच्छुभिर्विषयेषु स्पृहाऽवश्यं हेया । स्पृहात्यागश्च ने वाङ्मावत इत्यतस्तदुपायं शिष्यं बुबोधयिषुः कथं निःस्पृहो भवतीत्युच्यते
स्वभावलाभात्किमपि प्राप्तव्यं नाऽवशिष्यते । इत्यात्मैश्वर्यसम्पन्नो नि:स्पृहो जायते मुनिः ॥ १॥
स्वभावलाभादिति । स्वभावलाभात-स्वस्याऽऽत्मनो भावो धर्मः शुद्धसच्चिदानन्दमयत्वं तस्य यो लाभः सम्यग्दर्शनादिलाभक्रमेण घातिकर्मक्षये सति प्राप्तिः, साक्षात्कार इत्यर्थः । आत्मनः स्वस्वरूपेऽवस्थानमिति यावात् । दिग्योगे पञ्चमी । तदधिकमिः त्यर्थः । किमपि-किञ्चिदप्यन्यद्वस्तु, प्राप्तव्यम्-प्राप्तिविषयः प्राप्तियोग्यश्च, न-नैव, अवशिष्यते-शेषो भवति । स्वभावलाभ एव परमो लाभः, नाऽतोऽधिकः कोऽपि लाभः । अन्यस्य सर्वस्यैव