________________
ज्ञानसारे निर्लेपाऽष्टकम्
.
११९
नुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षत" इति चेति हृदयम् ॥ ७ ॥
तदेवं ज्ञानक्रियाभ्यां निर्लेपता साध्येत्युपदिश्य निलेपे शिष्य. स्य बहुमानं निर्लेपतार्थ प्रवृत्तिश्च यथा स्यादिति शुद्धज्ञानक्रियं नमस्कुर्वन्नुपसंहरति
सज्ञानं यदनुष्ठानं न लिप्तं दोषपङ्कतः । शुद्धबुद्धस्वभावाय तस्मै भगवते नमः ।। ८ ।।
इति महामहोपाध्यायश्रीमदयशोविजयोपाध्यायविरचिते ज्ञानसारे निर्लेपाऽष्टकं नामैकादशमष्टकम् ॥ ११ ॥ ___ सज्ञानमिति । यदनुष्ठानम्-यस्य यादृशस्य पुण्यात्मनो लोकोत्तमस्याऽनुष्ठानमावश्यकादिक्रिया चारित्रं वा, सज्ञानम्ज्ञानेन समाविष्टम् , ज्ञानसंस्कृतमित्यर्थः, अत एव, दोषपङ्कत:दूषणात्सम्यक्त्वपातप्रयोजकत्वाच्छ्रेयःपरिपन्थित्वाद्दोषा रागादीनि सम्यग्ज्ञानाद्यावरणात्पङ्काः कर्दमा इव, तैरिति सार्वविभक्तिकम्तस् । " पकोऽस्त्री शादकर्दमावि "त्यमरः । न-नैव, लिप्तम्-सम्बद्धम् , व्यतिकीर्णमित्यर्थः। निर्दुष्टमिति यावत् । यो ज्ञानी क्रियापरः शान्तो भावितात्मा जितेन्द्रिय इति सारार्थः । स तादृशः शुद्धबुद्ध. स्वभाव एव भवतीति, तस्मै-शुद्धज्ञानाऽनुष्ठानवते, अत एव, शुद्धबुद्धस्वभावाय-शुद्धो लेपरहितत्वान्निर्मलो बुद्धो जाग्रज्ज्ञानात्मा च स्वभावः पारमार्थिकं तत्त्वं यस्य, तस्मै, तादृशाय । शुद्धसच्चिदानन्दमयायेति यावत् । तादृशश्च सर्वैश्वर्यादिसमन्वित एव भवतीति, भगवते-ऐश्वर्यादिसमग्राय, नमः-नमस्कारोऽस्तु ।