________________
११८
भद्रङ्करोदयाख्यव्याख्याविभूषिते
वात्प्रत्यासत्तेश्च द्वयोरिति पदेन ग्रह इति ध्येयम् । सह-युगपत् , एवकारेण क्रमो व्यवच्छिद्यते। उन्मीलने-तादृशपुण्यवशात्सद्गुरूपासनादितश्च प्रादुर्भावे, ज्ञानक्रियासमावेश:-ज्ञानस्य क्रियायाश्च समावेशो युगपदेकत्र स्थितिः, व्याप्तिरिति यावत् । जायत इति शेषः । क्रियां विना ज्ञानप्ररोहस्य ज्ञानं विना क्रियाऽनुष्ठानस्य च न साफल्यम् । यदुक्तम्-" क्रियाविरहितं हन्त ! ज्ञानमात्र. मनर्थकमि "त्यादि, "तप:श्रुतादिना मत्तः क्रियावानपि लिप्यत " इत्यादि च । किञ्च ज्ञानस्य क्रिया साधनम् , तथा क्रियाया ज्ञानम् । अत एव कारणवशाद् द्वयोः सहैवोन्मीलनम् , अत एव च द्वयोः समावेशश्च भवति । एवञ्च द्वयोः समकक्षतैव न तु तारतम्यम् । यच्च ज्ञानस्य क्रियाया वा गौरवं तत्र तत्रोपदिष्टं तदवस्थाविशेषा. त्मकोपाधिमपेक्ष्य, तदाह-भूमिकेत्यादि । तुर्विशेषे । तदाहअत्र-ज्ञानक्रिययोर्द्वयोः, भूमिकाभेदतः-आश्रयाऽवस्थागुणपर्या. याद्यात्मकपूर्वपीठिकातारतम्यतः, भूमिकाविशेषाऽपेक्षयेत्यर्थः । आश्रयाद्युत्कर्षवशाद्धि ज्ञानादीनामुत्कर्ष इति भावः । एकैक मुख्यता-एकस्यैकस्य तस्य तस्य ज्ञानक्रियाऽन्यतरस्य मुख्यता प्राधान्यम् , भवेत्-जायते । अन्योन्यप्रादुर्भावादिवत्समासः । ज्ञानस्य भूमिकायां तस्य क्रियाया भूमिकायां च तस्याः प्राधान्यम् । स्वतस्तु द्वयोः समकक्षत्वमेव न तु तारतम्यम् । ध्यानदशायां ज्ञानस्य व्यवहारदशायां च क्रियायाः प्राधान्यमिति यावत् । एकस्य प्राधान्येऽन्यस्य गौणतामात्रम् , न च तावता तत्सत्त्वमनपेक्षितम् । यदुक्तम्-" ज्ञानाचारादयोऽपीष्टाः शुद्धस्वस्वपदावधी "ति “ स्वा.