________________
ज्ञानसारे निर्लेपाऽष्टकम्
भावेषु विभावत्वबुद्धेस्तत्पराङ्मुखत्वादुपाधिरहितत्वान्निर्विकारत्वादात्मस्वभावस्थ एव तिष्ठतीति शुद्ध्यतीत्युच्यते । तस्य च तादृशस्य क्रियया न प्रयोजनम्, निर्लेपत्वज्ञानेनैव निर्लेपत्वसिद्धेः । तदेतत्सुष्ठक्तम् - "भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न लिप्यते " इति । लिप्तया - आत्मा कर्मसम्बद्ध इत्येवं लेपविषयया, दृशेति सम्बध्यते । क्रियावान् - आवश्यकादिरूपनिर्लेपताप्रयोजकाऽनुष्ठानवान्, शुद्ध्यतीति सम्बध्यते । यो हि व्यवहारदृष्टिरात्मा निर्लेप इत्येवं ज्ञानविकल आत्मानं लिप्तं मन्यते, तेन क्रियाऽवश्यविधेया, अन्यथा ज्ञानवक्रियाया अध्यभावे तिता वज्रलेपायितैव स्यात् । क्रियाऽभ्यासातु क्रमशो गुणवृद्ध्या निश्चय दृष्टिरुद्बुध्यते, क्रियाबलान्न च पततीति शुद्ध्यतीत्यर्थः । ज्ञानिनो ज्ञानेनैव, व्यवहारप्रधानस्य पारमार्थिकवस्तुग्रहणाsपटोस्तु क्रियया शुद्धिरिति विवेक इति तात्पर्यम् । एवञ्चाऽऽत्मनः स्वतो निर्लेपत्वेऽपि तथाज्ञानवत एव क्रिया नाऽपेक्ष्यते, ज्ञानेनैव निर्लेपत्वस्य साधनात् । तथाज्ञानाभावे च क्रियैवोपायो निर्लेपतासिद्ध्यै इति सूच्यते ॥ ६ ॥
११७
ननु ज्ञानिनो यदि क्रियाया नोपयोगस्तर्हि " लिप्तताज्ञानसम्पातप्रतिघाताय केवलमि "त्याद्युक्तं न सङ्गच्छत इवि शिष्यशङ्काव्युदासायाऽऽह्—
ज्ञानक्रियासमावेशः सहैवोन्मीलने द्वयोः ।
भूमिकाभेदतस्त्वत्र भवेदेकैकमुख्यता ॥ ७ ॥
ज्ञानक्रियासमावेश इति । द्वयोः - ज्ञानक्रिययोः, तयोः प्रस्ता