________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
नन्वाऽऽत्माऽलिप्तश्चेज्ज्ञानक्रिययो !पयोगः, आत्मनः स्वयमेव शुद्धत्वात् । लिप्तश्चेज्ज्ञानिनोऽपि क्रियाऽवश्यमाश्रयणीया, क्रियां विना चिन्तामात्रेण लेपविलोपाऽयम्भवात् । यदुक्तम्-" सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगमि "ति शिष्यतक नयभेदेन निराचिकीर्षुराह
अलिप्तो निश्चयेनाऽऽत्मा लिप्तश्च व्यवहारतः । शुद्धत्यलिप्तया ज्ञानी क्रियावांल्लिप्तया दृशा ।। ६ ।।
अलिप्त इति । आत्मा-अहंप्रत्ययविषयश्चेतनः, निश्चयेननिश्चयनयेन, पारमार्थिकरूपेणेत्यर्थः । सङ्ग्रहनयेनेति यावत् । अलिप्त:-कर्मादिमलसम्पर्कशून्यः, शुद्धसच्चिदानन्दात्मकः परमार्थत आत्मा । शुद्धं हि द्रव्यं गुणपर्यायविवक्षाशून्यं सङ्ग्रहन यविषयः । तादृशञ्चाऽऽत्मद्रव्यं निर्विकारं निरुपाधिकं निर्विकल्पं स्वस्वभावमात्रस्थमलिप्तमेव । कर्मपुद्गलस्य विभावत्वेन तेनाऽऽत्मनो लिप्तत्वाऽसम्भवात् । चः-किन्स्वित्यर्थे । व्यवहारतः-व्यवहारनयाऽपेक्षया, लिप्त:-कर्ममलसम्बद्धः, शरीराधधिष्ठितत्वान्नानोपाधिसम्बन्धाजन्ममरणादिभावाच्च लौकिकरीत्या कर्मादिसम्बन्ध आत्मनि ज्ञायते, गगने धूमलेखया कालुण्यवत् । एवं स्थिते च, ज्ञानीआत्मा निलेप इत्येवंज्ञानसम्पन्नः, आत्मज्ञानवानित्यर्थः । अलिप्तयाआत्माऽलिप्त इत्येवं प्रकारया, दृशा-भावनया, शुद्ध्यति-कर्ममलरहितो भवति, नवीनं कर्म च न बध्नातीत्यपि बोध्यम् । ज्ञानिनो ह्यात्माऽलिप्त इत्येव दृष्टिरिति तादृशभावनया रागादिरहितत्वाद्वि