________________
ज्ञानसारे निलेपाऽष्टकम्
११५
श्रुतेनोपलक्षणत्वाच्छूनाऽभ्यासेन, आदिना कुलैश्वर्यादिना च, मत्तः-जातमदः, मम तपःश्रुतादि महदन्यतोऽधिकमित्यादिरूपेण जाताऽभिमानो जनः, क्रियावानपि-आवश्यकादिशुभक्रियापरायणोऽपि, लिप्यते-कर्म बनातीत्यर्थः । मदस्याऽऽश्रवत्वात् । एवञ्च केवलया क्रिययेष्टसिद्धिः सन्दिग्धेतिभावः । अपिनाऽक्रियस्य तु कथैव केति क्रियामात्रस्यैवेष्टसिद्धावपर्याप्तत्वं च सूच्यते । ननूक्तरीत्या ध्यानमप्येकमपर्याप्तमिष्टसिद्धाविति द्वयोः समकक्षत्वमिष्यतां नत्वपकर्षो ध्यानास्क्रियाया इति चेन्न । तदेव भङ्ग्याऽऽह-भावनाज्ञानसम्पन्नः-भावना “ ऽहं निर्लेपो नाऽहं लिप्ये' इत्यादिप्रकारेणाऽभ्यासात्मिका मनोवृत्तिस्तदात्मकं यज्ज्ञानं तेन सम्पन्नः समग्रः, निर्लेपज्ञानमग्न इत्यर्थः । भावनाज्ञानं तत्त्वज्ञानमित्येवं कस्यवियाख्यानं तु निर्लेपज्ञानमग्नस्येति प्रस्तावपालोचनयाऽर्थान्तरम् । तत्त्वज्ञानं निर्लेपज्ञानमेवेति वा कथञ्चिसङ्गतिः सम्पाद्या । निष्क्रियोऽपि-क्रियारहितोऽपि, अपिना सक्रियो न लिप्यत इति प्रागुक्तं ध्यानमेकमपीष्टसिद्धो पर्याप्तमिति च सूच्यते । न-नैव, लिप्यते-कर्मादिसम्बद्धो भवतीत्यर्थः । सम्पन्न इत्यनेन च ध्यानस्य परिपक्क दशा सूच्यते । व्युत्थानदशायां क्रियोपयोगस्य प्रागुक्तस्याऽन्यथाऽनुपपत्तेः । अत एव च तंत्र ध्यानस्य व्युत्थानदशैवाऽभिप्रेतेति च लभ्यते । अन्यथा पूर्वाऽपरार्थयोर्विरोधापत्तेरित्यवधेयम् । एवञ्च क्रियाऽपेक्षया ध्यानस्योस्कर्ष इति न क्रियया ध्यानं गतार्थमपि तु ध्यानेन क्रिया गतार्थेति ध्वनितम् । दशाविशेषे तूभयमप्यावश्यकमिति तत्त्वम् ॥ ५॥