________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
लिप्तोऽहं लिप्ये वेत्येवं यल्लिप्तत्वप्रकारकत्वात्तत्सम्बन्धि ज्ञानं तस्य सम्पात आगमनम् , प्रादुर्भाव इत्यर्थः । तस्य प्रतिधातायाऽवरोधाय, लिप्तताज्ञानाऽनुत्थानायेत्यर्थः । उपयुज्यते-प्रयोजनवती भवति । परिनिष्ठितध्यानदशायां तु " न विकल्पो न च क्रिये "ति " योगसंन्यासतस्त्यागी योगानप्यखिलांस्त्यजेदि"त्यादिना क्रियाया असम्भवोऽनुपयोगश्च प्राक्पतिपादित एव । यदा तु निर्लेपताध्यानस्य व्युत्थानदशा, तदानीमचिराऽपगतव्यवहारसंस्कारवशाल्लिप्तताज्ञानोत्थानं सम्भाव्यते । आवश्यकादिक्रियया च तन्निरोधो जायते । क्रियावशान्निपध्यानस्य दााल्लिप्तताज्ञानाऽनवसरात् । यदुक्तम्“जातं न पातयेद्भावमि"ति " पतितस्याऽपि तद्भावप्रवृद्धिर्जायते पुनरि "ति " गुणवृद्धय ततः कुर्यात् क्रियामस्खलनाय चे "ति चेति । एवञ्च निलेपध्यानमग्नस्य क्रियया न किमपि नवीनं साध्यम् , क्रियया हि यत्माध्यं तस्य निर्लेपध्यानेन गतार्थत्वात् । तथापि प्रारम्भिकदशायां सांसारिकः संस्कारो मा प्रबुद्धति तादृशध्यानदाय च यथा स्यादित्येकमात्रं क्रियायाः प्रयोजनम् । ध्यानपरिपाकदशायां तु तत्त्यागः प्रागुपदिष्ट एवेति भावः ॥ ४ ॥
ननु ध्यानमग्नस्याऽपि चेत्क्रियाऽपेक्षा, तर्हि क्रियैवैकाऽस्तु; अलं ध्यानेनेति शिष्यस्य दुरभिसन्धि विभित्सुराह
तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न लिप्यते ॥ ५ ॥ तप इति । तप:श्रुतादिना-तपसा चतुर्थषष्ठादिप्रकारेण