________________
था ३२ भी]
૨૧૫ સ્વામિની માફક યુગપ્રધાન તરીકે ઓળખાવ્યા છે, તે કારણથી શ્રી જૈનપ્રવચનમાં તેમની આજ્ઞાને શ્રી જિનાજ્ઞાથી જુદી ગણું નથી, कसूरिः' श्रीकालकाचार्यः, 'युगप्रवरः' सुधर्मादिवद् युगप्रधानः, 'चूर्णिषु' निशीथचूादिषु, 'वर्णितः' कथितः, कैश्शूर्णिकारादिभिरिति गम्यम् , तस्याज्ञा जिनाज्ञा, 'भिण्णा" तीर्थकदाज्ञातः पृथग्भूता, 'न दर्शिता ' न कथिता, 'समये' जैनप्रवचने, किन्तु जिनाझैव । यदुक्तम्-"आण त्ति पंचविहायरणसीलस्स गुरुणो हि उवएसवयणं आणा, तमण्णहा आयरंतेग गणिपि. डगं विराहियं भवति" त्ति नन्दीचूर्णौ । चतुर्थ्याश्चाप्रमाणीकरणे न दशविधसामाचार्याराधकः स्यात् , यतः ‘कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संजमतवद्दगस्स य अविगप्पेणं तहकारो ॥१॥" श्री आव०; तथा तदनाराधने विराधकोऽपि स्यात् , यतः "आयरियपरंपरपण आगयं जो उ छेयबुद्धीए । कोघेइ छेयवाई जमालिनासं स नासिहिति" ॥१॥ सूय० नि० । न चैवमस्माकमप्याचार्यपरम्पराया विद्यमानत्वात् सा कथमन्यथा क्रियते इति वाच्यं, प्रवचनाविरोधेनैवाचार्यपरम्पराया उपादेयत्वात् , यदुक्तं "जं जीअं सावजं न तेण जीएण होइ ववहारो। जं जीअमसावज्जं तेण जीएण ववहारो ॥१॥ त्ति व्यवहारभाष्ये, अन्यथा मासकल्पस्त्रीपूजाधुच्छेदकप्रकल्पितापि सामाचारी प्रमाणतामास्कन्देत । या च सामाचारी प्रमाणा साऽग्रे दर्शयिष्यते । न च तीर्थकृद्भिः पञ्चम्यादिदिवसेष्वेव पर्युषणादि कृतमस्माभिरपि तथैव क्रियमाणे को दोष इति वाच्यं, तेषामाज्ञाया एव अन्येषां विधेयतया प्रामाण्यात् न तु तत्कृत्यस्यापि, अन्यथा रजोहरणमुखवत्रिकाद्युपकरणप्रतिक्रमणप्रतिलेखनादिक्रियाणां विलोपापत्तेः, तीर्थकृतां तदसम्भवात् , तस्मादाज्ञाया एव विधेयतया प्रामाण्यं, तदेवाभ्युप