SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ६७ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः शुक्लमिदं खलु नियमात्संवत्सराद् उर्ध्वम् ॥ एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति ॥ . उत्तमज्ञानस्य प्रतिपादनम्चिन्मात्रलक्षणेनान्य-व्यतिरिक्तत्वमात्मनः । प्रतीयते यदश्रान्तं, तदेव ज्ञानमुत्तमम् ॥ १५ ॥ आत्मनः- चैतन्यादिगुणपर्यायात्मकात्मद्रव्यस्य चिन्मात्रलक्षणेन उपयोग-दर्शनज्ञानरूपचैतन्यस्वरूपेण, चेतनद्रव्यतोऽन्यसर्वाजीवद्रव्येभ्यो व्यतिरिक्तत्वं-व्यतिरेकित्वं-भेदरूपं यदश्रान्तं (न श्राम्यति स्म)सन्ततं प्रतीयते-प्रतीति-विषयीक्रियते, 'तदेवज्ञानं' सर्वाजीवद्रव्यभेदकारकचिन्मात्रलक्षणात्मविषयकज्ञानमेवोत्तम-सर्वज्ञानेभ्य उत्तम-अनुत्तरं ज्ञानं, विशिष्टात्मज्ञानरहितं ज्ञानं न ज्ञानमपित्वज्ञानमेव (अत्रात्मनीतरभेदसाधकचिन्मात्रलक्षणरूपहेतुः, केवलव्यतिरेकीवर्त्तते तथाहि आत्मा, अजीवरूपेतरेभ्यो भिद्यते, चिन्मात्रलक्षणाद् यदितरेभ्यो न भिद्यते न तच्चिन्मात्रलक्षणवद् यथाऽऽकाशम्, अत्रात्मत्वावच्छिन्नं पक्षः, आत्मेतरधर्मास्तिकायादिद्रव्यपञ्चकभेदः साध्यः, चिन्मात्रलक्षणं हेतुः, यत्र यत्रात्मेतरभेदाभावस्तत्र तत्र चिन्मात्रलक्षणाभावो यथाऽऽकाशम् इतिव्यतिरेकदृष्टान्ते आकाशादावितरभेदाभावरूपसाध्याभावव्यापकता, चिन्मात्रलक्षणाऽभावे गृह्यतेऽत एवात्मेतरेभ्यो न भिद्यते न तच्चिन्मात्रलक्षणवत्, यथाऽऽकाशमिति व्यतिरेकिव्याप्तिर्जेयेति । एवं प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरम् - इतरभेदाभावव्यापकीभूताभावप्रतियोगिचिन्मात्रलक्षणवान् आत्मेत्याकारक व्यतिरेकिपरामर्शात्, आत्म त्वाऽवच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविशेष्यताक 'आत्मा' इतरेभ्यो भिद्यते इत्याकारकानुमितिर्जायते इति तत्त्वम्, 'यथाऽऽकाश' मित्याकाशं इतरभेदाभाववत्, इतरभेदाभावव्यापक
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy