SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६८ अध्यात्मोपनिषत् चिन्मात्रलक्षणाभाववच्च । इत्येवंप्रकारेण चिन्मात्रलक्षणाभावनिरूपिता व्याप्यता इतरभेदाभावे, गृह्यते इत्यर्थः न चायं तथा' अयमात्मा, न तथान चिन्मात्रलक्षणाभाववान् 'तस्मान्न तथा चिन्मात्रलक्षणाभाववत्त्वाभावात् इतरभेदाभाववान् न, अत्र-इतरभेदसाधकानुमाने यच्चिन्मात्रलक्षणवत्, तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति, आत्ममात्रस्य पक्षत्वादिति न्यायपद्धतिः) ॥ १५ ॥ सविकल्पक-निर्विकल्पकसमाधिद्वये विशेष :शुभोपयोगरूपोऽयं, समाधिः सविकल्पकः। शुद्धोपयोगरूपस्तु, निर्विकल्पस्तदेकदृग् ॥१६॥ आद्यः सालम्बनो नाम, योगोऽनालम्बनः परः। छायायां दर्पणाभावे, मुख-विश्रान्तिसन्निभः ॥ १७ ॥ प्रशस्तरागात् सुगुरुविषयकसविनयवन्दनादिक्रियायां, आवश्यकादिक्रियायां, भागवते वचने, जिनवचनप्रणीतश्रावकधर्मविषयकक्रियायां, श्रमणधर्मविषयकक्रियायां प्रमादभावयोगतः, जिनवचनाऽनुसारित्वेन शुभभावक्रियायामुपयोगः- शुभोपयोगोऽर्थादभिरूपजिनप्रतिमा-विशिष्टपदवाक्यरचना-पुरुषविशेषगणधरादिमहापुरुषादिरूपशुभालम्बनजन्यप्रशस्तमनोभावोपयोगरूपोऽयं मनःप्रणिधानजन्यः समाधिः सविकल्पकः। ___ 'शुद्धोपयोगरूपस्तु' निरावरणशुद्धात्मद्रव्यनिरावरण-शुद्धज्ञानोपयोगरूपोऽथवा परमात्मनोऽनन्तगुणेषु अन्तरात्मन एकाग्रतारूपशुद्धोपयोगात्मकसमाधिः, 'तदेकदृग्' तस्मिन् शुद्धोपयोग एवैकदृष्टि-दर्शनविशिष्टः, निर्विकल्पकः समाधिरुच्यते, (जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी, आ.लो.२अ.उदे.६) योऽनन्यदर्शी भवति स अनन्यरामी भवति योऽनन्यरामी भवति सोऽनन्य-दर्शीभवति(अनन्य
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy