SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ अध्यात्मोपनिषत् त्रिपदीविचारणे चिलातिपुत्रस्य स्वर्गगमनम्इति यतिवदनात् पदानि बुद्ध्वा, प्रशमविवेचनसंवराभिधानि । प्रदलितदुरितः क्षणाच्चिलातितनय इह त्रिदशालयं जगाम ॥ ७५ ॥ 'यतिवदनात्' मुनीश्वरमुखतः 'प्रशमविवेचनसंवराभिधानि पदानीति बुद्धवे'ति प्रशमबोधत:-क्रोधादिविषयकप्रकृष्टशमविचारतःस सुषमामस्तकमसिं च प्रक्षिप्तवान् भूमौ आत्मा भिन्नो देहादिति विवेकभावप्रधानविचारत:आत्मशुद्धिप्रधान-स्वरूपध्याने निमग्नो जातोऽथवा विवेकत: जीवादितत्त्वसुदेवादितत्त्वविषयकश्रद्धातः सम्यक्त्वादिप्रादुर्भाववान् जातः, संवरप्रधानविचारतः स्वकृतपापनिन्दापूर्वकपापमात्रत्यागचिन्तनधारातो भावतो महाव्रतादिधारणपूर्वकः, कायोत्सर्ग-क्रियानिरतोऽभवत्, अर्थात् प्रशमविवेचनसंवराभिधानि पदानि बुद्ध्वा-सम्यग् ज्ञात्वाध्यात्वा; क्षणात् तत्क्षणात् 'प्रदलितदुरितः' दुष्कृतानि दलयित्वा चिलातितनयः चिलातिनामकदास्याः पुत्रत्वेनैष प्रसिद्धनामापि चिलातिपुत्रः, 'त्रिदशालयं जगाम' नाकिलोकं गतवानिति ॥ ७५ ॥ अस्य चिलातिपुत्रस्य माध्यस्थ्येन फलं जातंन चानेकान्तार्थाऽवगमरहितस्याऽस्य फलितम्, । कथं माध्यस्थ्येन स्फुटमिति विधेयं भ्रमपदम् । समाधेरव्यक्ताद्यदभिदधति व्यक्तसदृशं । फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते ॥ ७६ ॥ अनेकान्त-स्याद्वाद-प्रधान-शास्त्रविषयकज्ञानरहितस्य 'अस्य' चिलातिपुत्रस्य माध्यस्थ्यरूपहेतुना कथं स्फुटं-स्पष्टं त्रिपदीज्ञानं फलितं
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy