SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५५ प्रथम शास्त्रयोगशुद्धि-अधिकारः फलवजातं ? इति भ्रमपदं-शङ्कास्थानं न विधेयं-कर्त्तव्यं, यतः समाधेरव्यक्ताद्व्यक्तसदृशं फलं, योगाचार्याः, ध्रुवं विगलितेऽभिनिवेशे सति, 'अभिदधति' =योगाचार्या हि ध्रुवं-निश्चयतोऽभिनिवेशे-असदाग्रहे विगलिते नष्टे सति अव्यक्तात्-अस्पष्टात् समाधेः- एकप्रत्ययसंततिपूर्वक विशिष्टैकविषयमात्रभासनरूप-समाधितो व्यक्तसमाधिसदृशं फलमभिदधति-कथयन्तीति ॥ ७६ ॥ अध्यात्मपूतात्मनोऽनेकान्ते शास्त्रे विकस्वरभक्तिर्भवतिविशेषादोघाद्वा सपदि तदनेकान्तसमये, । समुन्मीलद्भक्तिर्भवति य इहाध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोजागररुचिः, यशःश्रीस्तस्याऽङ्गं त्यजति न कदापि प्रणयिनी ॥७७॥ सपदि-तत्क्षणे तत् माध्यस्थ्यसहितपदज्ञानादिशास्त्रयोगात् कारणात्, योऽध्यात्मविशदः-आत्महितकारिज्ञानक्रियात्मकाध्यात्मपूतात्मा, 'इहानेकान्तसमे' अस्मिन्ननेकान्तस्याद्वादजैनमते, 'विशेषादोघाद्वा' विशेषप्रकारेणाथवा सामान्यप्रकारेण 'समुन्मीलद्भक्तिः' =सम्यग्विकसद्सर्वसमर्पणात्मकभक्तिशाली भवति यो भृशं अत्यन्तं धीरोदात्तानां धीराणामुदात्तानां 'अविकत्थनः क्षमावान् अतिगम्भीरो महासत्त्वः स्थेयान् निगूढमानः धीरोदात्तो, दृढव्रतः कथित:'-(साहित्यदर्पणे) 'विरुद्धहेतौ सति विक्रियन्ते येषां न चेतांसि ते एव धीराः', दाता महान् समर्थ उदात्तः कथ्यते' प्रियतमगुणः केवलिगतोजागरदशारूपः तस्मिन् रुचिः, रसो रागो वा यस्य स धीरो-दात्त-प्रियतमगुणोज्जागररुचिर्भवति, तस्य-स्याद्वादशास्त्र१. अभिनिवेशाभावरूपमाध्यस्थ्येनाऽव्यक्तानेकान्तार्थज्ञानत्वेऽपि त्रिपदीज्ञानेन व्यक्तेन व्यक्तफलं जातम्
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy