SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः अनेकान्ता व्यापके सति सर्वत्र तेन निर्णयज्ञानंव्यापके सत्यनेकान्ते, स्वरूपपररूपयोः । आनेकान्त्यान कुत्रापि, निर्णीतिरिति चेन्मतिः ॥३९॥ अव्याप्यवृत्तिधर्माणां, यथाऽवच्छेदकाश्रया । नाऽपि ततः परावृत्तिस्तत् किं नाऽत्र तथेक्ष्यते ? ॥४०॥ 'अनेकान्ते व्यापके सति' यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात्, एवं विजयिनि निष्कण्टके स्याद्वादनरेन्द्रे तदीयमुद्रां सर्वेऽपि पदार्था नातिक्रामन्ति तदुल्लङ्घने तेषां स्वरुपव्यवस्थाहानिप्रसक्तेस्तथा च नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगमरूपस्याद्वादमर्यादाया व्यापकत्वं-व्याप्ति-द्रव्यपर्यायात्मकत्वस्वभावाऽवच्छिन्नत्वं सर्वत्र वस्तुनि सदा वर्तते अर्थात् स्वरूपपररूपयो:-स्वरूपावच्छेदेन च पररूपावच्छेदेन सत्त्वासत्त्वाद्यनेकधर्मावच्छिन्नत्वरूपानेकान्ते व्यापकेसर्ववस्तुव्यापके सति, अनेकान्तस्य भाव आनेकान्त्यं तस्मादानेकान्त्यात्कस्यचिदेकस्य सत्त्वस्य वाऽसत्त्वस्यान्तस्य निर्णयस्याभावात् कुत्रापिकस्मिंश्चित् पदार्थे सत्त्वविषयिणी वाऽसत्त्वविषयिणी निर्णीति:-निर्णयो नेति चेद्-यदि मतिर्बुद्धिस्तव तदोच्यते 'अव्याप्यवृत्तिधर्माणां यथाऽवच्छेदकाश्रया' =विरुद्धतथाभासमानैरनेकैर्धमैमिश्रितस्य वस्तुनोऽपेक्षा विना विवक्षितैकधर्मप्रकारकनिश्चयविषयीकरणासंभवः । न चापेक्षा विना लौकिकोऽपि व्यवहारः सङ्गच्छते, अग्रावच्छेदेन कपिसंयोगाभाववति वृक्षे शाखाऽपेक्षयैव कपिसंयोगवत्त्वव्यवहारात् । 'अव्याप्यवृत्तित्वं-तदधिकरणक्षणाऽवच्छेदेन तत्समानाधिकरणाऽत्यन्ताभावप्रतियोगित्वरूपं, एवं ज्ञानादीनामपि, ज्ञानादिकं यदात्मनि विभौ शरीराघवच्छेदेनोत्पद्यते तदा घटाद्यवच्छेदेन तदभावोऽस्त्येवेति'।
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy