SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् ____ 'विप्रतिषिद्धानां' सत्त्वविरुद्धमसत्त्वमसत्त्वविरुद्धं सत्त्वं परस्परविरुद्धसत्त्वादि-धर्माणां स्याद्वादरूपसमुच्चये-अनेकविधधर्माऽवच्छिन्नपदार्थे विरोधो-सहानवस्थानलक्षणो विरोधो न, सत्त्वाऽसत्त्वयोरितरेतरमविष्वग्-अभिन्नभावेन वर्तनात् । न हि घटादौ सत्त्वमसत्त्वं परिहत्य वर्त्तते, पररूपेणाऽपि सत्त्व प्रसङ्गात् । न चासत्त्वं सत्त्वं परिहृत्य वर्तते, स्वरूपेणाऽप्यसत्त्वप्राप्तेः। तदा हि विरोध:स्याद् यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैवम् । यतो नहि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि किन्त्वन्योपाधिकं सत्त्वम्, अन्योपाधिकमसत्त्वं स्वरूपेण सत्त्वं पररूपेण चासत्त्वम् । 'अपेक्षाभेदतो हन्त, कैव विप्रतिषिद्धता' =अपेक्षाया-स्वरूपपररुपाद्यपेक्षाया भेदतो-विभागत:-विशेषतः हन्तेति खेदे संभ्रमे वा कैव विप्रतिषिद्धता? न कोऽपि सहानवस्थानरूपी विरोधगन्धोऽपि अर्थादभिन्नभावेनाऽपेक्षाभेदत एकत्र विरुद्धधर्माणां समावेशः सम्भवतीति ॥ ३७ ॥ व्यवहारिकोदाहरण-पूर्विकाऽपेक्षावादतः स्याद्वादसिद्धिःभिन्नाऽपेक्षा यथैकत्र, पितृपुत्रादिकल्पना । नित्या - नित्याद्यनेकान्तस्तथैव न विरोत्स्यते ॥ ३८॥ यथा, एकत्र-एकपुरुषव्यक्तौ, 'भिन्नापेक्षा' भिन्नाः- अन्याः, अपेक्षाः उपाधयः- अवच्छेदकाः- अंशप्रकारा इति यावत् यस्यां सा, कल्पना भिन्नापेक्षा कथ्यते, 'पितृपुत्रादिकल्पना'-अत्र कल्पना विचारधारा ज्ञेया, एकस्यैव पुंसस्तत्तदुपाधिभेदात् पितृत्व-पुत्रत्व मातुलत्व-भागिनेयत्वपितृव्यत्व-भ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात्, तथैव-तेन प्रकारेणैव-अपेक्षाभेदरूपप्रकारद्वारा नित्या-नित्याद्यनेकांत:मिथोविरुद्धनित्यानित्यसत्त्वासत्त्वाद्यनेक-अनन्तधर्माऽवच्छिन्नत्वरूपानेकान्तवादो 'न विरोत्स्यते' -न सहानवस्थानरूपविरोधपदं प्राप्स्यति ॥३८॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy