________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
२७ कोटिक-ज्ञानवत्त्वेन नयानां संशयत्वं न, यदि विरुद्धकोटिद्वयावगाहि यथा सन् वेत्यादि स्यात्तदा संशयत्वमत्र नयानां तु, सदिति सत्त्वाद्यवगाहिज्ञानं यथार्थमस्ति कथं संशयः? परः- तीर्थान्तरीयः, नयानां यत् संशयत्वं भाषते तद् इत्थं वस्त्वंशबुद्धिद्वारा प्रत्येकं विकल्पानांवस्त्वंशधर्मात्मकश्रुतविकल्पानां संशयत्वं, एकधर्मावगाहित्वेन दूरीकृतं परंतु यतः नयेषु-नयसमुदायात्मके-नानाधर्मावच्छिन्ने सापेक्षविरुद्धनानाधर्मविशिष्टे स्याद्वादे संशयत्वं दूरीकृतमस्तीत्यर्थः ॥ ३५ ॥
परधर्मतिरस्काररूपविरोधाभावे नयसमुदायोऽहतो विजयते जीवन् - सामग्येण द्वयाऽलम्बेऽप्यविरोधे समुच्चयः ।। विरोधे दुर्नयवाताः, स्वशस्त्रेण स्वयं हताः ॥ ३६॥
न्यायमते सामग्येण-सामस्त्येन 'द्वयाऽऽलम्बे' द्वित्वविशिष्टवस्तुद्वयालम्बने-एकत्वबुद्धिद्वित्वबुद्धि वैशिष्टयं पूर्णं भासते तथा परधर्मतिरस्कार रूपविरोधाभावे नयसमुच्चयोऽप्रतिहतो जीवन् विजयते, 'विरोधे दुर्नयव्राताः स्वशस्त्रेण स्वयं हताः' परधर्मतिरस्कारे सति दुर्नयानां-नयाभासानां समुदायाः, एकान्तवाद रूपस्वशस्त्रेण स्वयं हताःअनेकान्तवादामृतपानपराङ्मुखाः अनेकान्तश्रद्धाशून्याः सत्यमार्गतो भ्रष्टा इत्यर्थः एवं च 'कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु परस्परध्वंसिसु सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्त्येवंशीला सुन्दोपसुन्दवदिति परस्परध्वंसिनः, तेषु हे जिन? ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं, पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावात्, अधृष्यमपराभवनीयं जयति-सर्वोत्कर्षेण वर्तते' इति ॥ ३६ ॥
प्रत्येकं मिथो विरुद्धानां स्याद्वादरुपसमुच्चये न विरोध:कथं विप्रतिषिद्धानां, न विरोधः समुच्चये ?। अपेक्षाभेदतो हन्त कैव विप्रतिषिद्धता ॥ ३७॥