SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् ख्यापनार्थम् । तत्र प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नयः । अनन्तधर्माऽध्यासितं वस्तु, स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयतीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः। नयाश्चानन्ताः, अनन्तधर्मत्वाद् वस्तुनः। प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकमिति स्याच्छब्दलाञ्छितानां नयानामेव प्रमाणव्यपदेशभाक्त्वादिति ॥ ३३ ॥ एकदेशेनैकत्वधीयोः प्रमाणभूता तथा प्रकृतेऽपि - एकदेशेन चैकत्वधीद्वयोःस्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंश-बुद्धिज्ञैया नयात्मिका ॥ ३४ ॥ न्यायमते-यथा द्वयोर्वस्तुनो र्वा वस्तुधर्मयोः, एकदेशेन-अयमेक:अयमेक इत्याकारका-पेक्षाबुद्धिजन्ययोर्द्वयोरेकदेशेन एकांशेन एकत्वबुद्धिः-प्रमात्मिका-सत्यज्ञानरूपा तथाऽनन्तधर्माऽवच्छिन्ने वस्तुनि वस्तुनिष्ठनित्यत्वाद्यंशबुद्धि-र्नयात्मिका-प्रमाणांशरूपा ज्ञेयेति ॥ ३४ ॥ परो वादी नयानां संशयत्वं भाषते तस्य निरासश्चइत्थं च संशयत्वं यनयानां भाषते परः । तदपास्तं विकल्पानां, प्रत्येकं न नयेषु यद् ॥ ३५॥ परस्तीर्थान्तरीयः, 'नयानां संशयत्वं यद् भाषते' संशयस्य लक्षणमिदमस्ति एकधर्मिणि विरुद्धनानाधर्मवैशिष्टयाऽवगाहिज्ञानं संशयः, एकस्मिन् पुरो वर्तिनि पदार्थे विरुद्धा व्यधिकरणा ये नानाधर्माः स्थाणुत्वपुरुषत्वादयस्तेषां वैशिष्ट्यं सम्बन्धस्तदवगाहिज्ञानं संशयः, यथा स्थाणु र्वा पुरुषो वेत्यत्र स्थाणुत्व-स्थाणुत्वाभाव-पुरुषत्वपुरुषत्वाभावकोटि व संशयः, भावद्वयकोटिकसंशयाप्रसिद्धः, अत्रानन्तधर्माऽवच्छिन्ने वस्तुनि इत्थं वस्त्वंशबुद्धि:- एकधर्मांश
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy