________________
२५
प्रथम शास्त्रयोगशुद्धि-अधिकारः
नयविषयकैकान्तबुद्धितोऽप्यनेकान्तो न यातिद्वयोरेकत्व-बुद्धयाऽपि, यथा द्वित्वं न गच्छति । नयैकान्तधियाऽप्येव-मनेकान्तो न गच्छति ॥३२॥
न्यायमते, यथा द्वयोः-वस्तुद्वये वा वस्तुनिष्ठधर्मद्वये एकत्वबुद्ध्याऽपि-एकत्वावगाहिज्ञानेनापि (किं द्वित्वावगाहिबुद्ध्यात्वित्यपिशब्दार्थः) अयमेकः अयमेकः इत्याकारिकापेक्षाबुद्धिजन्यं) एवं तथा प्रकृते अनन्तधर्माऽवच्छिन्ने वस्तुनि, नयप्रक्रियया नयनिष्ठैकनिर्णयात्मकबुद्ध्याऽपि, अनेकान्तः-स्याद्वादः अनन्तधर्मावच्छिन्नत्वं न गच्छत्यपि तु तिष्ठत्येव ॥३२॥
सामस्त्यद्वारा प्रमाणभूतो नयो न स्यात्सामग्येण न मानं स्याद्, द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंशबुद्धि या नयात्मिका ॥ ३३।। __ यथा द्वयो-वस्तुनोर्वा वस्तुधर्मयोः एकत्वबुद्धि न मानं (प्रमाणं) स्यात् यतः सामग्येण समग्रस्य भावः सामग्र्यं-सामस्त्यं तेन मानं न भवेत्(न्यायमते)
तथा तेन प्रकारेण वस्तुनि-अनंतधर्माऽवच्छिन्ने पदार्थे वस्तुगतांशबुद्धि नयाऽत्मिका-जैनशासने नयस्वरूपा ज्ञेया-ज्ञानपथं नेयेति जैनशासनशास्ता जिनो जगन्नाथोऽपि दुर्नयतिरस्कारेण भव्येभ्यो नयप्रमाणमार्ग प्ररूपयति यथा 'अस्तिघटः' इति घटे स्वाऽभिमतमस्तित्वधर्मं प्रसाधयन् शेषधर्मेषु गजनिमीलिकामालम्बते न चास्य दुर्नयत्वं, धर्मान्तरा-तिरस्कारात्, न च प्रमाणत्वं स्याच्छब्देनलाञ्छितत्वात् । 'स्यात्सदि' ति कथञ्चित् सद्वस्तु इति प्रमाणम् । मुख्यवृत्त्या प्रमाणस्यैव प्रामाण्यं यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत्तेषामनुयोगद्वारभूततया प्रज्ञापनाऽङ्गत्व