________________
,
अध्यात्मोपनिषत् मवलम्ब्योत्तरमदायि, जीवद्रव्यस्यैकत्वेनैकोऽहं, न तु प्रदेशार्थतया तथाह्यनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः । तथा कञ्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्याऽपि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्युक्तं 'नाणदंसण दयाए दुवेऽपि ' ज्ञानदर्शनद्वयापेक्षया द्वौ अप्यहं न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादिःपुरुष एकदैव तत्तदपेक्षयाऽपि पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावांल्लभत इति । तथा प्रदेशानां क्षयाभावात्तथाऽव्ययोऽप्यहं, कतिपयानामपि च व्ययाभावात् किमुक्तं भवति, अवस्थितोऽप्यहं, नित्योऽप्यहं, असङ्ख्येयप्रदेशिता हि न कदाचनाऽपि व्यपैति, अतो नित्यताऽभ्युपगमेऽपि न दोषः । तथा 'उपयोगदयाऐत्ति'विविधविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहं, अतीतानागतयो र्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिद् भिन्नानां भूतत्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । अनेके भूता - अतीता भावाः सत्तापरिणामा भव्याश्च भाविनो यस्य सोऽनेकभूतभावभविकोऽप्यहम्। श्रोकार्थस्त्वेवम्'द्रव्यार्थादहमेकोऽस्मि'- अहमित्यात्मद्रव्यस्यापेक्षयैकोऽस्मि एकत्वसंख्याविशिष्टोऽहमात्मेति, 'दृग्ज्ञानार्थादुभावपि' दर्शनस्वभावापेक्षया च ज्ञान स्वभावापेक्षया द्वौ अप्यहम् द्वित्वसंख्याविशिष्टोऽहमिति, ममासंख्येयप्रदेशाऽपेक्षया क्षयाभावान्नित्योऽहम् व्ययाभावादखण्डोऽहम्-नित्यत्वाखण्डत्वविशिष्टोऽहं उपयोगरूपपर्यायापेक्षया अनेकभूत (भावि) भवत्कालीनानेकविषयकबोधभावरूपोपयोगापेक्षया 'अनेकभूतभावात्मेति', पर्यायापेक्षया नानाविधभूतभाविकालीननानाविषयबोधोपयोगापेक्षया कथंचिदनित्यत्वविशिष्टोऽप्यहमिति ( उत्पादव्यय ध्रौव्ययुक्तं सत्, तद्भावःसत्तेत्यर्थः ः ॥३०-३१॥
२४