________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
शास्त्रपरीक्षायां तापशुद्धिः प्रारभ्यतेयत्र सर्वनयाऽऽलम्बि-विचारप्रबलानिना । तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ॥ २९॥
यत्र-यस्मिन् शास्त्रे 'सर्वनयाऽऽलम्बिविचारप्रबलाग्निना'= सर्वे च ये नैगमाद्यानयास्तेषामालम्बिनो (तानालम्ब्य) ये विचारास्ते (स्याद्वादयुतभावाः) एव प्रबल-प्रकृष्टबलवानग्निस्तेन, तात्पर्ये-ऐदम्पर्येनिष्कर्षेअन्तिमतत्त्वनिश्चयात्मकज्ञाने श्यामिका-श्यामत्वं न, (हेम्नो संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि चेति रघुवंशे) 'तच्छास्त्रं तापशुद्धिमत्' तदेव शास्त्रं तापशुद्धिनामकपरीक्षायामुत्तीर्णमिति ॥ २९ ॥
स्याद्वादसिद्धिकृते सोमिलप्रश्नोत्तरौ भगवत्याम् - यथाऽऽह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये। द्रव्यार्थादहमेकोऽस्मि, दृग्ज्ञानार्थादुभावपि ॥ ३०॥ अक्षयश्चाऽव्ययश्चास्मि, प्रदेशार्थविचारतः। अनेकभूतभावात्मा, पर्यायार्थ-परिग्रहात् ॥ ३१॥
सोमिलप्रश्नः = (भग. सू. शतक १८,३-१०) एको भवान् ? द्वौ भवान् ? अव्ययो भवान्? अवस्थितो भवान्? अनेकभूतभावभविको भवान्? इति सोमिलप्रश्ने जिनो महावीरः स्याद्वादसिद्धये प्राह= हे सोमिल ! एकोऽप्यहं यावदनेकभूतभावभविकोऽप्यहं, अथ केनाऽर्थेन भदन्त? एवमुच्यते यावद् भविकोऽप्यहं सोमिल ? द्रव्यार्थतया एकोऽहं, ज्ञानार्थतया च दर्शनार्थतया द्वौ अहम्, प्रदेशार्थतया अक्षयोऽप्यहम्, अव्ययोऽप्यहम्, अवस्थितोऽप्यहम् उपयोगार्थतया अनेकभूतभावभविकोऽप्यहम्, तत्तेनाऽर्थेन यावद् भविकोऽहमिति सूत्रच्छाया । भगवतीटीकायां-तत्र भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्त