________________
२२
अध्यात्मोपनिषत् तत:प्राधान्यमथवाङ्गत्वमर्थो निर्णीयते, शेषत्वस्य व्याख्या 'शेषः पदार्थत्वात्' (मी.सू.३,१,२) सूत्रेण कृता विद्यते, परेषामुपयोगरूपार्थप्राप्तिरेव शेषत्वम् ‘हिन्दीवेदान्तपरिभाषायां' विवरणे) हतमकर्त्तव्यत्वेन स्वयमेव गतमेव 'कर्मणो भिन्नात्मदर्शका वेदान्ता शेषा एव' कर्मतो भिन्न:-अन्य आत्मेति दर्शकाः-प्रतिपादका वेदान्ता उपनिषद एव शेषा उच्यन्ते, समीचीना आत्मनः-मनसःशुद्धिकारका वेदान्तोक्तविधयः सन्ति ते तु वेदोक्तिद्वारा यज्ञादिकर्मविधिना हता एव वेदान्तिन आहुः 'अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे ।' हिंसा नाम भवेद्धर्मो न भूतो न भविष्यतीति (कर्मवादिपूर्वमीमांसकात्मवाद्युत्तरमीमांसकयोः सिद्धान्तभेददर्शनमत्र) ॥ २७॥
स्वरूपतो निरवद्यकर्म, चित्तशुद्धिकारणम्कर्मणां निरवद्यानां, चित्तशोधकता परम्। साङ्ख्याचार्या अपीच्छन्ती-त्यास्तामेषोऽत्र विस्तरः॥२८॥
वेदोक्तत्वेऽपि स्वरूपतः सावद्ययज्ञादिकर्म, चित्तशुद्धिं प्रति प्रतिबन्धकं, हिंसाभावादिसंक्लिष्टपरिणामत्वादत एव यानि यानि निरवद्यकर्माणि तानि तानि मनसः शुद्धिं प्रति कारणानि, अहिंसाऽभयदानादिरूपात्यन्तकुशलपरिणामत्वात् कथ्यन्ते 'कर्मणां निरवद्यानां चित्तशोधकता परम्'-अवद्येन-पापेन रहितानां कर्मणां-तपोजपाऽध्ययनाध्यापनादीनां उत्कृष्टचित्तशोधकता मन्यमानाऽस्ति, एनं विषयं 'सांख्याचार्या अपि' =विष्णुप्रतिष्ठाकारकाश्चैतन्यप्रभृतिशब्दैरभिधीयन्ते, तेषां मत-वक्तारः कपिलासुरिपञ्चाशिभार्गवोलूकादयः, ततः साङ्ख्याः कापिला इत्यादिनामभिरभिधीयन्ते (सांख्यास्तु हिंसाढ्यवेदविरता अध्यात्मवादिनः) साङ्ख्याचार्याः अपिनाऽन्ये बौद्धादयोऽपि जैनास्त्विच्छन्त्येव तत्र कः प्रश्न: ? अत्रैव विषयविस्तर:-शब्दप्रपञ्चः आस्तामलमित्यर्थः, शास्त्रपरीक्षायां छेदशुद्धिः समाप्ता ॥ २८॥