________________
२१
प्रथम शास्त्रयोगशुद्धि-अधिकारः
रूपब्रह्मयज्ञः-ज्ञानयज्ञ इतीच्छन्तः, कर्मयोगं ब्रह्मयज्ञत्वेनेच्छाविषयीकुर्वन्तो योगिनः श्येनयागं किं त्यजन्ति ? दुर्गतिदुष्कृतानुबन्धस्य भयङ्करत्वेन बलवदनिष्टानुबन्धित्वेन यथा त्यजन्ति योगिनः तथा बलवदनिष्टानुबन्धित्वेन वेदविहितत्वेऽपि यज्ञादि सर्वं कर्म त्याज्यमेवेति तथा च वेदविहिता हिंसा निन्दितैव सम्यग्दर्शनज्ञानसंपन्नैरर्चिर्मार्गप्रपन्नैर्वेदान्तवादिभिश्च गर्हितत्वात् तथा च तत्त्वदर्शिनः "देवोपहारव्याजेन यज्ञव्याजेन ये घ्नन्ति जन्तून् गतघृणा घोरां यान्ति दुर्गतिम्" इति पठन्ति, वेदान्तिका अप्याहु:-' अन्धे तमसि मज्जाम:, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥' तथा अग्नि ममेतस्माद्धिंसाकृतादेनसो मुञ्चतु ' छान्दसत्वाद् मोचयतु इत्यर्थः । व्यासेनाऽप्युक्तम्
'ज्ञानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाऽम्भसि । स्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥' ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ कषायपशुभि र्दुष्टै धर्मकामार्थनाशकैः । शममन्त्रहुतै र्यज्ञं विधेहि विहितं बुधैः ॥ प्राणिघातात् तु यो धर्ममीहते मूढमानसः । सं वाञ्छति सुधावृष्टिं, कृष्णाहिमुखकोटरात् ॥ " ॥ २६ ॥
वेदान्तविधिशेषत्वं कर्मविधेर्हतम्
वेदान्तविधिशेषत्वमतः कर्मविधेर्हतम् । भिन्नाऽऽत्मदर्शकाः शेषा, वेदान्ता एव कर्मणः ॥ २७ ॥
अतः वेदोक्तत्वेऽपि स्वरूपतोऽतिसावद्यत्वेन चित्ताऽशोधकत्वेन यज्ञादिरूपकर्मविधेः-कर्मविधानतः, वेदान्तोपनिषत्प्रतिपादितसम्यगाध्यात्मिकविधिशेषत्वं (शेषत्वशब्दो मीमांसकानां पारिभाषिको वर्त्तते, मीमांसादर्शनस्य तृतीयेऽध्याये शेषत्वस्य लक्षणं दर्शितमस्ति,