________________
अध्यात्मोपनिषत्
सहजदुष्टता- पीडादिदुर्गतिदानादिरूपा न याति न दूरे कदाचित् केनचित्
कुत्रचिदपि गच्छतीति ॥ २४॥
२०
हिंसादाहयो दृष्टान्तसाम्यतासिद्धिः
हिंसा भावकृतो दोषो दाहस्तु न तथेति चेत् । भूत्यर्थं तद्विधानेऽपि, भावदोषः कथं गतः ? ॥ २५ ॥
किं च हिंसा, मानसिकाऽशुद्धिरूपभावेन कृतो दोषोऽस्ति, 'दाहस्तु न तथे' ति मानसिकाऽशुद्धिजन्यो दोषो नार्थाद् दृष्टान्तवैषम्यमस्तीति चेत्- भूतिकामनया पशुहिंसाविधानेऽपि मानसिकाऽशुद्धिरूपो भावदोषः कथं गतः ? यतो हिंसापरिणाममनः शुद्धयो - विरोधात् कथंचिदपि भूतिकामनया हिंसाविधाने भावदोषस्तदवस्था एवेति, दु:खदुर्गतिदानादिका प्रकृतिदुष्टताऽपेक्षया, हिंसादाहयो र्न दृष्टान्तवैषम्यमपि तु दृष्टान्तसाम्यमेवेति ॥ २५ ॥
योगिनः श्येनयागं किं त्यजन्तिवेदोक्तत्वान्मनः शुद्धया, कर्मयोगोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ? ॥ २६ ॥
यज्ञादिरूपकर्मयोगः, स्वरूपतः सावद्यत्वात् संक्लिष्टपरिणामजनक त्वाच्चित्तशुद्धिं न जनयत्येव, यदि वेदविहितं यज्ञादिकर्म, सावद्यमपि चित्तशुद्धिजनकं स्यात्तदा 'शत्रुवधाय श्येनयागः कार्यः' इति वेदविहितमपि श्येनयागादि कर्म 'दुर्गतिपरम्परारूपानुबन्धस्य भयंकरतारूपत्वादतिनिन्द्यं कर्माऽस्ति भवतां शिष्टमहापुरुषै र्हेयत्वेन कथितमस्ति, स्वरूपतोऽतिसावद्यत्वेन गोहिंसावत् वेदविहितत्वेनाऽपि श्येनयागाऽग्निहोत्रादि सर्वयज्ञादिकर्म, चित्तशुद्धिजनकत्वाभावादिति वेदविहितत्वकारणेन, मनः शुद्धिहेतुना यज्ञादिकर्मरूपकर्मयोगोऽपि योगिनः अध्ययनाध्यापन